________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [उपमानखण्डे
स्वाद् घटादिवद् " इत्यत्र प्रमेयत्वहेतोर्विपक्षभूता गगनाद्याः, तेभ्योऽस्य व्यावृत्तिर्नास्ति । प्रमेयत्वस्य केवलान्वयित्वेन गगनादिषु वर्तमानत्वात् , एवं विपक्षाड्यावृत्यभावात् साध्याभावववृत्तित्वादयं हेतुर्व्यभिचारी जातः । " वन्हिरनुष्णः पदार्थत्वाद् " इत्यत्र पदार्थत्वहेतौ अबाधितविषयत्वं नास्ति उष्णत्वग्राहकेण प्रत्यक्षप्रमाणेन तस्य बाधितसाध्यकत्वात् । तस्मादयमुक्कधर्माभावाद्वाधितो हेत्वाभासः । "शब्दोऽनित्यः नित्यधर्मानुपलब्धेः" इत्यत्र नित्यधर्माऽनुपलब्धिहेतुः असत्प्रतिपक्षितत्वधर्मरहितो न भवति, कुतः ? " शब्दः नित्यः अनित्यधर्माऽनुपलब्धेः " इत्यनेन सत्प्रतिपक्षितत्वात् । तस्मानित्यधर्मानुपलब्धिहेतुः सत्प्रतिपक्षितो हेत्वाभासः । अनया रीत्या पाञ्चरूप्योपपन्नो हेतुर्हेतुर्भवति । एकतमरूपापाये हेत्वाभासत्वप्रसङ्गात् । परं पाञ्चरूप्योपपन्नत्वं प्रायिक बोध्यं ७ कृत्तिकोदयस्य पक्षधर्मरहितस्यापि शकटोदयं प्रतिहेतुत्वदर्शनादिति दिक् ॥७॥ - इति श्रीपण्डितदेवीदासतनुजनुषा सतीविष्णुदेवीगर्भजेन श्रीजैनन्यायविशारद
कवितार्किक-दर्शनाचार्य-नृसिंहदेवशास्त्रिणा विरचितायां सिद्धान्त. मुक्तावल्याः “प्रभा "ख्यायां व्याख्यायां द्वितीयमनुमान
खण्डं समाप्तम् समाप्ता चाऽनुमानस्वरूपप्ररूपणनाम्नी पञ्चमी मुक्ता ।
अथोपमानखण्डम्
(का०) ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् ।
सादृश्यधीर्गवादीनां या स्यात्सा करणं मतम् ॥७६।। वाक्यार्थस्याऽतिदेशस्य स्मृतियापार उच्यते। गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥८॥
(मु०) उपमिति व्युत्पादयति(प्र० टी०), प्रतिमान न यस्यास्ति यच्च व्यापि महद्यशः।
. श्रुत्येरितमतस्तस्मै कस्मैचिन्महसे नमः ॥ १॥
उपमितिमिति-अवसरसङ्गत्या उपमिति निरूपयतीत्यर्थः। ": अयमाशयः-प्रत्यक्षनिरूपणानन्तरं शिष्यस्य अनुमानजिज्ञासैवाऽभूत् । प्रत्यक्षानुमानयोर्द्वयोः कार्यकारणभावात् सा जिज्ञासैव उपमितिनिरूपणस्य प्रतिबन्धकी. .* न्यायवातिकतत्तात्पर्यटीकादिषु बहुप्रपञ्चः।। .... .....