________________
बाधप्रपन्चः।
गाडीत्यादि शब्दरूपं प्रमाणं, तेनैव तस्या निषिद्धतया बाधितसाध्यकत्वादुक्रनामा बाधितोऽयम् ।
चतुर्थस्तु--" राजसूयो ब्राह्मणेन कर्त्तव्यः स्वर्गसाधनत्वाद् अग्निष्टोमवत्" इति । " अन " राजा राजसूयेन यजेत" इति श्रुत्या क्षत्रिय एवोक्रयज्ञाधिकारी नतु ब्राह्मण इति निश्चीयते । तेन स्वर्गसाधनत्वं हेतुाह्मणकर्तृकबाधितसाध्यहाक इति दिक् ।
अयं “बाधित" एवार्हतः “अकिञ्चित्कर" इतिनामकहेत्वाभासस्य भेदविशेष उच्यते । “असिद्धविरुद्धानकान्तिकाकिञ्चित्करभेदात् चतुर्विधो हेत्वाभासाः। अप्रयोजकोऽकिञ्चित्कर इति च" ते वदन्ति । परन्तु–'प्रमाणनयतत्वालोकालङ्कार " कारवादिदेवसूरिमते तु त्रय एव हेत्वाभासाः । तथाच तस्य सूत्रम्-" असिद्धपिरुद्धानकान्तिकास्त्रयाहेत्वाभासाः" इति । इदन्तु बोध्यम्-बाधित एव "कालात्ययापदिष्ट" उच्यते । कालस्य साधनकालस्याभावेऽपदिष्टः प्रयुक्तो हेतुः कालात्ययापदिष्टः 'अकालप्रयुक्त इति यावत् । “बाधितसाध्यक" इत्यस्यापरं नाम । दुष्टं लक्षणमपि हेत्वाभासान्तःपात्येव भवति। तथाहि-लक्षणेनेतरभेदसाधकानुमाने अतिव्याप्तं बक्षणं व्याप्यत्वासिद्धम् । तत्राऽसाधारणधर्मस्योपाधित्वात् । अव्याप्तन्तु भागासिद्धम् । असम्भवग्रस्तञ्च स्वरूपासिद्धम् ।
अपिचाऽनुमानप्रकरणे बालकैरिदमवश्यं बोद्धव्यम्-पक्षसत्वम् , सपक्षसत्त्वम् , विपक्षाब्यावृत्तत्वम् , अबाधितविषयत्वम् , असत्प्रतिपक्षितत्वमितिपञ्चरूपोपपन्नोहेतुर्हेतुभवति । तद्यथा-साध्यधर्मविशिष्टो धर्मी पक्षः-यथा वन्द्यनुमाने पर्वतः, तस्मिन् ग्याप्य वर्तमानत्वं हेतो: “ पक्षधर्मत्वम्" । साध्यसजातीयधर्मा धर्मी सपक्षः। यथा तत्रैव महानसम्, तस्यैकदेशे सर्वत्र वा वर्तमानत्वं हेतोः “सपक्षसत्त्वम् " | साध्य. विरुद्धधर्मा धर्मी विपक्षः । यथा तत्रैव महाहृदः तस्मात्सर्वत्रैव व्यावृत्तिहेतो "विपक्षाब्यावृत्तत्वम् "। साध्याभावनिश्वायकप्रबलप्रमाणाऽविषयीकृतत्वमेव " अबाधितविषयत्वम्"। यथा धूमवत्त्वस्य हेतोर्याविषयो वह्निमत्त्वाख्यं साध्यं, तस्य प्रत्यक्षादिप्रमाणैर्वाधो नास्त्येव । साध्याभावनिश्वायकसमबलप्रमाणशून्यत्व "मसत्प्रतिपक्षितत्वम्" । यथाऽत्रैव सर्वप्रसिद्ध वन्यनुमाने साध्याभावसाधकसमबलप्रमाणाभावः । एवंविधपाञ्चरूप्योपपत्तिरेव धूमवत्त्वस्य वन्हिसाध्यसाधकत्वे निबन्धनम् । एवं सर्वत्रोहनीयम् । एषां मध्येऽन्यतमविरहादेव पञ्च हेत्वाभासाः सम्पद्यन्ते। तथाहि-"शब्दोऽनित्यश्चाक्षुषत्वाद्" इत्यत्र चाक्षुषत्वं हेतु: पक्षीकृते शब्दे न वर्तते शब्दस्य श्रावणत्वादित्येवं चाचुपत्वे पक्षसत्वं नास्तीत्यसिद्धो हेत्वाभासः । “शब्दः नित्यः कृतकत्वाद् आकाशवत्" इत्यत्र सपने आकाशे कृतकत्वस्याभावादन हेतौ सपक्षसत्त्वं धर्मो नास्तीत्ययं विरूदोहेत्वाभासः साध्यभूतनित्यत्वाभावेनाऽनित्यत्वेन ब्याप्तत्वात् । “ शब्दोऽनित्यः प्रमेय