________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखएडे
(का०) साध्यशून्यो यत्र पक्षस्त्वसौ बाध उदाहृतः ।
__उत्पत्तिकालीनघटे गन्धादिर्यत्र साध्यते ॥ ७ ॥
(मुक्ता०) साध्यशून्य इति । पक्षः पक्षतावच्छेदकविशिष्ट इत्यर्थः । तेन घटे गन्धसत्वेऽपि न क्षतिः । एवं मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यत्रापि बोध्यम् ॥ ७८ ॥ इति श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्यविरचितायां सिद्धान्त- .
मुक्कावल्यामनुमानखण्डम् ।
(प्र० टी०) बाधं लक्षयति परममूले -" साध्यशून्य " इति। पक्षपदेन सगृहीतमर्थ दर्शयति मूले-"पक्षतावच्छेदकविशिष्ट" इति । अर्थात् पक्षतावच्छेदकदेशकालादिविशिष्टस्यैव पक्षस्य ग्रहणं लक्षणे बोध्यम् । तेन घटोत्पत्तिकालोत्तरकाले घटे गन्धसत्त्वेऽपि न बाधलक्षणस्याव्याप्तिः। प्रपञ्चितप्रायमधस्तात् । प्रतिस्पष्टं बाधस्थलं दर्शयति-" एवं मूलावच्छिन्न" इति । “ मूलावच्छिन्नो वृक्षः कपिसंयोगी एतद्वृक्षत्वाद् " इत्यत्र पूर्वोक्नस्थलीयकालस्येव देशस्यापि पक्षतावच्छेदकरवात् । यद्यपि वृक्षे शाखावच्छेदेन कपिसंयोगो वर्त्तत एव, तथापि मूलदेशावच्छेदेन कपिसंयोगाभावः प्रत्यक्षप्रमाणसिद्ध इति । मूलदेशावच्छिन्न एव वृक्षः पक्षः । तथा चैतवृक्षत्वं हेतुर्बाधितः । अवशिष्टं रामरुद्रकृतानुमानतरङ्गिण्यां निरीक्ष्यम् । ग्रन्थगौरवभयानेहोक्तम् ।
इदन्तु बोध्यम् -धर्मिग्राहकमानबाधितः, साध्यप्रतियोगिग्राहकमानबाधितः, साध्यग्राहकमानबाधितः, हेतुग्राहकमानबाधितश्चेति चतुर्धा बाधितः । धर्मिविषयकेन प्रमाणेन यस्य बाधोऽसौ " धर्मिग्राहकमानबाधित " इत्युच्यते-यथा-" घटो व्यापको द्रव्यत्वाद् अाकाशवद्" इत्यत्र "द्रव्यत्वं" हेतुरुनो बाधितः, यतः प्रत्यक्षेव धर्मिणो घटस्य व्यापकंताया प्रभावो निश्चितः।।
द्वितीयस्तु-" वह्निरनुष्णः कृतकत्वाद् " इति । अन्न "कृतकत्वं" हेतुस्तथा। यत उष्णताभावरूपस्य साध्यस्य प्रतियोगिभूतं यदुष्णत्वं तद्ग्राहकं स्पार्शनं प्रत्यक्ष स्पार्शनप्रत्यक्षरूपं मानं तेनानुष्णत्वसाध्यस्य बाधः । तादृशसाध्यशून्यपक्षकत्वादयं तथोच्यते।
तृतीयस्तु-" ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् परिवद् " इति । तथाहि
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्वा न पेया ब्रह्मवादिभिः ॥
इति स्मृत्या सुरापानरूपं साध्यं सर्वथा ब्राह्मणकृते निषिद्धमिति "द्रवद्रव्यत्वं" हेतुस्तथा-अर्थात् साध्यग्राहकमानबाधितः । प्रकृते साध्यं सुरापानं, तद्ग्राहकं मानं