________________
सत्प्रतिपक्षस्य लक्षणोदाहरणे |
कीभूतं यद् धूमत्वम् तेन धर्मेण घटितमेवेति कृत्वेतीदमपि श्रवच्छेदकं न स्यात्, इष्टञ्चावच्छेदकत्वेन रूपेण तत् । स्वेत्यादिनिवेशे तु नास्ति दोषः । यतो धूमप्रागभावत्वं धूमप्रागभावे तिष्ठति धूमत्वञ्च धूमे, तो द्वयोर्धर्मयोः परस्परं समानमधिकरणं नास्ति, व्यधिकरणवृत्तिधर्मस्य गुरुभूतत्वेन व्याप्यतावच्छेदकान्तःपातित्वे प्रतीयमानेऽपि नास्ति काचन क्षतिरिति भावः ।
२८६.
(का० ) विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता ॥ ७७ ॥
( मुक्का० ) विरुद्धयोरिति । कपिसंयोगतदभावव्याप्यवत्तापरामर्शेSपि न सत्प्रतिपक्षत्वमत उक्तं-- विरूद्धयोरिति । तथाच स्वसाध्यविरुद्धसाध्याभावव्याप्यवत्तापरामर्शकालीन साध्यव्याप्यवत्तापरामर्शविषय इत्यर्थः ॥ ७५ ॥ ७६ ॥ ७७ ॥
(प्र० टी०) सत्प्रतिपक्षं लक्षयति परममूले - “ विरुद्धयो " रिति । " हेत्वो" रिति पदस्य " विरुद्धयो” रितिविशेषणं तस्य प्रयोजनमाह मूले कपिसंयोगे त्यादि । नह्येवंविधस्थले हेत्वोः परस्परं विरोधव्यवहारः । अर्थात् प्रकृते वृत्तत्वहेतौ `कपिसंयोगस्य कपिसंयोगाभावस्य च या व्याप्यवत्ता, तस्याः परामर्शे सत्यपि न सत्प्रतिपक्षत्वव्यवहारः पारस्परिकहेतुविरोभावात् । निष्कृष्ट लक्षणं दर्शयतितथाचेति । स्वसाध्येति – “स्वं" सत्प्रतिपक्षत्वेनाभिमतो यो हेतु:, तत्साध्य विरुद्धो यः साध्याभावः, तद्व्याप्यवत्तापरामर्शकालिको यः साध्यव्याप्यवत्तापरामर्शः, तद्विषयो यो हेतुः सः सत्प्रतिपक्ष इत्यर्थः । यथा - ' - "हदो वह्निमान् धूमात्' इति केनचित्स्थापितम् । तदुत्तरं सिद्धान्ती वादिप्रयुकं धूमहेतुमेवं सत्प्रतिपत्तयति - यत् " हदो वन्ह्यभाववान् जलाद् " इति । स्व " पदेन जलहेतोर्ग्रहणं तस्य साध्यं वन्द्यभावः तद्विरुद्धं वन्हिरूपं साध्यम्, तस्याभावविषयकः यः परामर्शः "वन्ह्याभावव्याप्यजलवानयं हृद" इत्याकारकः, एतादृशपरामर्शकाल एव जायमानो यने वह्निव्याप्यधूमवानयं हृद " इत्याकारकः परामर्शः तादृशपरामर्शविषयता धूमहेतावस्तीति हृदात्मकपचे वहिसाधनाय प्रयुक्तो धूमहेतुः सत्प्रतिपक्ष इति लक्षणसमन्वयः ।
66
`श्रयमेव प्राचां मते "प्रकरणसम" इत्युच्यते । प्रकरणेन पक्षेण समस्तुल्यः पक्षो हि साध्यवान्नवेति सन्दिह्यते तदर्थं प्रयुक्तो हेतुरपि "अत्र स्वसाध्यं साधयितुमीष्टे नवेति सन्दिह्यत" इत्युभयोः समत्वं बोध्यम् । साध्यविपरीत साधक हेत्वन्तर दर्शनेनायं हेतुः स्वसाध्यं साधयितुमीष्टे नवेति सन्देहोदयादयं “ सन्दिग्ध " इत्यपि भण्यते ।
ननु - सन्देहस्याऽनुमानाङ्गत्वात्तदुत्थापकस्यास्य कथं हेत्वाभासत्वमिति चेद् ? भ्रान्तोऽसि । द्विविधा खलु सन्देहप्रवृत्तिः । एका स्वारसिकी सर्वानुमानसाधारणी । द्वितीया पुनः प्रतिकूलाऽनुमानजनिता । तत्र प्रथमैवाऽनुमानाङ्गं नतु द्वितीया । शङ्कापनोदनप्रवृत्तपूर्वाऽनुमानपरिपन्थित्वरूपेणानुमानान्तरेण प्रवर्त्तितत्वात्तस्या इति यतीन्द्रप्रकाशकारः ॥७५, ७६, ७७॥
66