________________
२८८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
पक्षे प्रसिद्धिः आश्रयासिद्धिः । पते पक्षतावच्छेदकस्याभाव इत्यर्थः । स्वरूपासिद्धिस्तु पने व्याप्यत्वेनाभिमतस्य हेतोरभावः। हेतौ हेतुतावच्छेदकस्याभावः स्वरूपासिद्धिरित्यर्थः * व्याप्यत्वस्य-व्याप्तेरसिद्धिरभावो व्याप्यत्वासिद्धिः, यस्य हेतोाप्तिरेव न सिद्धयेदित्यर्थः।
आश्रयसिद्धिमुदाहरति परममूले-पक्षासिद्धिरिति । पक्षासिद्धिराश्रयासिद्धिरित्यनर्थान्तरन् । तस्या उदाहरणं "मणिमय' इति । “ मणिमयः पर्वतो वह्निमान् धूमाद् " इत्यत्र मणिमयस्य पर्वतस्याप्रसिद्धत्वात् मणिमयपर्वतत्वरूपस्य पक्षतावच्छेदकस्य सुतरामभाव इति नानुमितिः । अर्थात्-“ पर्वतो न मणिमय" इति ज्ञाने सति “वह्विव्याप्यधूमवानयं मणिमय: पर्वत" इति परामर्शप्रतिबन्धो भवति इतीदमेवास्य दूषकताबीजम् । स्वरूपासिद्धिमुदाहरति-परममूले “ ह्रद" इति । उदाहरणाकारः स्पष्टः । अत्रापि-" हृदो न धूमवान् ” इत्याकारे ज्ञाने सति " वह्निव्याप्यधूमवानयं हृद" इति परामर्शों न जायत इत्यास्या अपि परामर्शप्रतिबन्धो दुष्टिबीजम् । व्याप्यत्वासिद्धिं दर्शयति-परममूले “ नीलधूमादिक " इति । " पर्वतो वह्निमान् नीलधूमात्" इत्यस्या उदाहरणाकारः । अत्रत्यं रहस्यं प्रकटीकरोति मूले- नीलधूमत्व' मिति । स्वसमानाधिकरणेति । अयमत्राशयः" लघुधर्मसमनियतगुरुधर्मस्थानवच्छेदकत्वम्" इत्यस्त्येको नियमः । अर्थात् यो धर्मों गुरुभूतोऽस्ति, लघुधर्मसमानाधिकरणश्च नासौ हेतुतावच्छेदकतया स्वीक्रियते । प्रकृते च-'स्व' पदेन नीलधूमत्वरूपो धर्मो गृह्यते । सच हेतुतावच्छेदको नास्ति, यतो नीलधूमत्वसमानाधिकरणकं व्याप्यतावच्छेदकं धर्मान्तरं यत् शुद्धधूमस्वम् , तादृशशुद्धधूमत्वरूपधर्मेण घटित एव नीलधूमत्वरूपो धर्मोऽस्ति अघटितोनास्ति । अतो नीलधूमत्वस्य हेतुतानवच्छेदकत्वात् " यत्र यत्र नीलधूमः तत्र तत्र वह्नि" रिति व्याप्तेरभाव एव व्याप्यत्वासिद्धिः । तादृशदोषदुष्टो हेतुव्याप्यत्वाऽसिद्धो हेत्वाभास इत्यर्थः। ___स्वसमानाधिकरणपदनिवेशफलं दर्शयति-धूमेति । " इयं यज्ञशाला वह्निमती भविष्यति धूमप्रागभावात् ' इत्यादिस्थल धूकप्रागभावस्वरूपस्य धर्मस्य अवच्छेदकत्वस्वीकारणाय 'स्वसमानाधिकरण' पदं दत्तम् । एतद्विहाय व्याप्यतावच्छेदकधर्मान्तराघटितमात्रमुच्येत चेत् ? तदा धूमप्रागभावोहेतुरसन् स्यात् , यतो धूमप्रागभावत्वमपि व्याप्यतावच्छेदकधर्मान्तराघटितं नास्ति । किन्तु व्याप्यतावच्छेद
*इदन्तु बोध्यम्-साहचर्यनियमरूपां व्याप्तिक्रियां प्रति पत्कर्म तथाप्यम्। विपूर्वादापेः कर्मणि ण्यद्विधानात् । तदूमादिरेव। एनामेव व्याप्तक्रियां प्रति यस्कर्तृ तद्व्यापकम् । व्यापेः कर्तरि बुलि सति व्यापकमिति सिद्धरित्यादि बहू न्यायदीपिकायाम् । व्याप्यस्य भावो व्याप्यत्वं तच्च व्याप्तिरेयेति ध्ययम् ।