________________
विरुद्धासिद्धयोः प्ररूपणम् ।
२८७
सहचारग्रहाभावः न तत्र हेस्वाभासता अपित्वज्ञानरूपासिद्धिरेवेति युक्तम् । यद्यप्येव तथापि केवलान्वयिसाध्यकस्थले अनुपसंहारिव्यवहारः साम्प्रदायिकानामिति भावः । तत्त्वम् अनुपसहारित्वमित्यर्थः । ।
(का०) यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥७४॥
(मु०) साध्यवतीति । एवकारेण साध्यववावच्छेदेन हेत्वभावो बोधितः । तथा च साध्यव्यापकीभूताभावप्रतियोगित्वं तदर्थः ॥ ७४॥
(प्र टी०) विरुद्धं व्याख्यातुं प्रतीकमादत्ते-य इति । यो हेतुः साध्यवति: साध्याधिकरणे नैवास्ति=न वर्तते स विरुद्धः विरुद्धो नाम हेत्वाभास उनः । कारिकास्थैवकारव्यावृत्तं दर्शयति –एवकारेणेति । यदि साध्यवत्वावच्छेदेन हेत्वभावो न विवक्षितः स्यात् तदाऽसाधारणेऽतिव्याप्तिः स्यात् । निष्कृष्टं लक्षणमाहतथाचेति। साध्यस्य व्यापकीभूतो योऽभावः तस्य प्रतियोगित्वमित्यर्थः। यथा" घटो नित्यः कृतकस्वात्" इत्यत्र साध्यस्य नित्यत्वस्य व्यापकीभूतो योऽभावः कृतकत्वाभावः तत्प्रयोगित्वं कृतकत्वस्योत " कृतकत्वं ' विरुद्धो हेतुरिति लक्ष्ये लक्षणसमन्वयः । एवम् -" प्रकृत्तिर्नित्या कृतकत्वात् कालवत् ” इत्यादावपि “कृतकत्वं" हेतु: साध्याभावव्याप्तः।
"कृतकत्वाभावो हि नित्यत्वव्यापक" इति साध्याभावग्रहसामग्रीत्वेन साक्षादे. यमनुमितिप्रतिबन्धक इत्येवास्य दुष्टिबीजम् ॥७॥ (का०) आश्रयासिद्धिराद्या स्यात्स्वरूपासिद्धिरप्यथ ।
व्याप्यत्वाासद्धिरपरा स्यादसिद्धिरतस्त्रिधा॥७५॥ पक्षासिद्धियंत्र पक्षो भवेन्मणिमयो गिरिः। .
हृदो द्रव्यं धूमवत्त्वादत्रासिद्धिरथापरा ।।७६ ॥ - व्याप्यत्वासिद्धिरपरा नीलधूमादिके भवेत् ।
(मु०) असिद्धिं विभजते । श्राश्रयासिद्धिरित्यादि । पनासिद्धिरिति । आश्रयासिद्धिरित्यर्थः । अपरेति । स्वरूपासिद्धिरित्यर्थः । नीलधू. मादिक इति । नीलधूमत्वं गुरुतया न हेतुतावच्छेदकं स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तराघटितस्यैव व्याप्यतावच्छेदकत्वात् । धूमप्रागभावत्वसङ्ग्रहाय स्वसमानाधिकरणेति ॥
(प्र० टी०) असिखस्य तृतीयहेत्वाभासस्य लक्षणं दर्शयितुमादौ सदानमाहपरममूले-आश्रयेति । सामान्यलक्षणन्तु-आश्रयासिद्धयाद्यन्यतमत्वमसिद्धिः, तद्वत्वमसिद्धत्वम् । एतदभिप्रायेणैवाह मूले --प्रसिद्धमिति । पाश्रये साध्यहेत्वोर्धार्माण