________________
२८६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
यथा " शब्दोनित्यः शब्दत्वात् " इत्यत्र शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं पक्षभूतशब्दमात्रवृत्तित्वादसाधारणः । सपक्षः-साध्यवत्तयेति-कृतव्याख्यानमधस्तात् । अत्र मतभेदं दर्शयितुं प्रन्थान्तरमवतारयति-यदात्विति । " शब्दो. ऽनित्यः शब्दत्वात्" इत्यादौ शब्दात्मके पक्षे यदा अनित्यत्वरूपसाध्यस्य सन्देहः तदा घटपटादिः सपक्षो भवति, तस्य अनित्यत्वरूपसाध्यवत्त्वेन निश्चितत्वात् । गगनादिकं तु विपक्ष: तत्रानित्यत्वरूपसाध्याभावस्य नित्यत्वस्य निश्चितत्वात् । ताभ्यामुभाभ्यां व्यावृत्तः शब्दत्वात्मको हेतुः शब्दात्मकपक्षमात्रवृत्तित्वाद्भवत्यसाधारणः । अथ यदा"शब्दोऽनित्य : कार्यत्वाद् घटवद्" इति कार्यस्वेन हेतुना शब्दे पते अनित्यत्त्वनिश्चयः तदा " शब्दत्वं" हेतुर्नाऽसाधारणः । किन्तु तत्राऽसाधारण्यभ्रम इति प्राचां नैयायिकानां मतम् । नवीनमते तु " साध्यासमानाधिकरणो हेतुरसाधारण ” इति लक्षणान्तरमुक्तं प्रागिति तत्त्वम् । “ भूमिर्नित्या गन्धवत्त्वात् " इत्याद्यप्यसाधारणस्यो. दाहरणान्तरं ज्ञेयम् ॥७३॥
(का० ) तथैवानुपसंहारी केवलान्वयिपक्षकः ।
(मु०) तथैवेति । केवलान्वयिपक्षक इति । केवलान्वयिधर्मापच्छिन्नपक्षक इत्यर्थः । सर्वमभिधेयं प्रमेयत्वादित्यादौ सर्वस्यैव पक्षत्वात्सामानाधिकरण्यग्रहस्थलान्तराभावान्नानुमितिः । इदं तु न सम्यक् , पक्षकदेशे सहचारग्रहेऽपि क्षतेरभावात् । अस्तु वा सहचाराग्रहस्तावताप्यज्ञानरूपासिद्धिरेव नतु हेत्वाभासत्वं तस्य तथापि केवलान्वयिसाध्यकत्वं तत्त्वमित्यतम् ।
(प्र० टी० ) अनुपसंहारिणं लक्षयति-केवलेति । केवलम् अन्वयी अन्वयिधर्मावच्छिन्नः पक्षो यस्य सः केवलान्ययिपक्षकः । उदाहरति-सर्वमिति । अत्र पदार्थमात्रस्यैव पक्षत्वमिति हेतोः “ यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्व" मिति रूपेण साध्यहेत्वोः सामानाधिकरण्यज्ञानरूपाया व्याप्तेरभिलापकं किमपि दृष्टान्तस्थलं नोपलभ्यते । तेन " सर्वमभिधेयम्" इत्याकाराया अनुमितेः प्रतिबन्ध इत्याशयः । परमिदं प्राचां मतं न सम्यक्–इत्याशयेनाह-इदमिति । अयमत्राशयःमाभूत सामानाधिकरण्यग्रहस्य किमपि दृष्टान्तभूतं स्थलादिकं तथापि पक्षकदेशे साध्यहेत्वोः सहचारग्रहदशनादनुमितिर्निराबाधा । एतच्च काणादमतेन पक्षताग्रन्थेऽवोचाम । ननु-संशयसत्वे कथं पक्षकदेशे साध्यनिश्चय इति चेन्न सर्वत्वमितावच्छेदकसंशयसामग्रीसत्त्वेऽपि घटत्वादिधर्मितावच्छेदकसाध्यानिश्चयोत्पादे बाधकाभावात् । घटे प्रमेयत्वेन हेतुना अभिधेयत्वरूपसाध्यनिश्चये प्रतिबन्धकाभावादित्यर्थः । अत्रैव कल्पान्तरमाह *अस्तुवेति । तस्य सहचारग्रहस्येत्यर्थः । यन्त्र साध्येन सह हेतोः
* ननु-प्राचीनमते समानविषयकत्वेनैव प्रतिबन्धककत्वात् पर्वतत्वावच्छिन्नसाध्यसंशयकाले घटत्वावच्छिन्नेऽपि साध्यनिश्चयो न भवत्येवेत्यत आह-प्रस्तुति ।