________________
साधारणाऽसाधारणयोर्लक्षणोदाहरणे ।
२६५
यद्यपि व्यभिचारादिव्याप्याः साधारणाद्याः, न तावता हेत्वाभाससङ्ख्याधिक्यं तथैव बाधादिव्याप्यव्यभिचारादिभिरपि सङ्ख्याधिक्यं नार्हति भवितुम्, तथापि स्वायत्तप्रज्ञाप्रतिभासितार्थस्वरूपस्य मुनेरिच्छैवान नियामिका सत्यस्मत्प्राकृततर्कानहेति सन्तुष्यताम् ॥७२॥
(का०) यः सपक्षे विपक्षे च भवेत्साधारणस्तु सः।
(मु०) यः सपक्ष इति । सपक्षविपक्षवृत्तिः साधारण इत्यर्थः । सपक्षो निश्चितसाध्यवान् । विपक्षः साध्याभाववान् * । विरुद्धवारणाय सपक्षवृत्तित्वमुक्तम् । वस्तुतो विपक्षवृत्तित्वमेव वाच्यम् , विरुद्धस्य साधारणत्वेऽपि दूषकताबीजस्य भिन्नतया तस्य पार्थक्यात् ॥
(प्रभा० ) व्यभिचारिव्याप्यं साधारणं लक्षयति-सपक्षेति । सपक्षं लक्षयति-सपक्ष इति । साध्यवत्त्वप्रकारतानिरूपितनिश्चयीयविशेष्यत्वं सपक्षलक्षणमित्यर्थः । साध्यवत्वेन निश्चीयमानत्वं सपक्षत्वमिति सारः । विपक्षलक्षणमाहविपक्ष : इति । साध्याभाववत्त्वप्रकारतानिरूपितनिश्चयीयविशेष्यत्वं विपक्षलक्षणमित्यर्थः । पदकृत्यं दर्शयति--विरुद्धवारणायेति । साध्याभावव्याप्यरूपस्य विरुद्धस्य केवल विपक्षवृत्तित्वादित्याशयः । तावत्यपि दोषाभावप्रकारमाह-वस्तुत इति । यद्यपि विरुद्धोपि हेतुर्विपक्षवृत्तिः, साधारणोपि च, तावता नानयोर्विशेषेण भाव्यम्। तथापि दूषकताबीजस्य भिन्नत्वादुभयोर्भेदः : साधारणोऽव्यभिचारज्ञानं प्रतिबध्नाति, विरुद्धस्तु सामानाधिकरण्यज्ञानस्य प्रतिबन्धक इति वैलक्षण्ये सति विपक्षमात्रवृत्तिस्वेन नोभयोरविशेष इति भावः ।
- अस्योदाहरणन्तु - “ पर्वतो धूमवान् बढे" रित्यादि ज्ञेयम् । अत्र हि बहिर्हेतुनिश्चितसाध्यवति महानसादौ सपने निश्चितसाध्याभाववति अयोगोलके विपचे च सवात्साधारणः।
(का०) यस्तूभयस्माद्यावृत्तः स चासाधारणो मतः॥७३॥ ' (मु०) यस्तूभयस्मादिति । सपक्षविपक्षव्यावृत्त इत्यर्थः । सपक्षः साध्यवत्तया निश्चितः । विपक्षः साध्यशून्यतया निश्चितः । शब्दोऽनित्यः शब्दत्वादित्यादौ यदा शब्देऽनित्यत्वसन्देहस्तदा सपक्षत्वं घटादीनामेव, तयावृत्तं च शब्दत्वमिति तदा तदसाधारणम् । यदा तु शब्देऽनित्यत्वनिश्चयस्तदा नासाधारणः । इदं च प्राचां मतम् । नवीनमतं तु पूर्वमुक्तम् ।। ७३॥
(प्रभा० ) असाधारणं लक्षयति-सपक्षविपक्षेति । पक्षमात्रवृत्तिरित्यर्थः ।
* क्वचित्-" साध्यवद्भिन्न” इति पाठः । तत्रैष निर्णयः-अत्यन्ताभावघटितव्याप्तिपक्षे " साध्याभाववान् ” इति पाठः । अन्योन्याभावघटितव्यातिपक्षे " साध्यवद्भिन्न" हीत पाठः।