________________
२८४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
*नहि पृथिवीत्वं प्रतियोगिव्यधिकरणगन्धाभाववृत्ति योगिदृष्ट्यापि । तस्मात् "उत्पत्तिक्षणावच्छिन्नो घटो गन्धाभाववान् ” इत्याकारकं बाधज्ञानमेव प्रतिबन्धकमित्यसो हेत्वाभासः स्वतन्त्रः पञ्चमश्चेति सर्व सुस्थम् । श्राशङ्कय समाधत्ते-नचेति । शङ्काग्रन्थः स्पष्टार्थः । पक्षतावच्छेदकदेशकालावच्छेदेन इत्युत्तरग्रन्थस्यायमर्थःपक्षतावच्छेदको यो देशकालौ तयोरवच्छेदेन व्यावर्तकत्वेन रूपेण अनुमितिर्विदुषामनुभवसिद्धा । अर्थात् घटत्वपर्वतत्वादिधर्मवत् देशकालावपि पक्षतावच्छेदकरूपतया स्वीकर्तव्यौ । नहि काचिदनुमितिः कालानवच्छिन्ना देशानवच्छिन्ना वेति कश्चिदपि समाधातुं समर्थः स्यात् । तस्माद्घटात्मकपक्षस्योत्पत्तिक्षणात्मकः कालोप्यवच्छेदकः । एवं घटे पक्षे गन्धसत्वेऽपि उत्पत्तिकालानुरोधेन तत्र गन्धाभावोऽवश्यं मन्तव्यः । अन्यथा घटगन्धयोः कार्यकारणभावभङ्गप्रसङ्गः स्यात् । एवमिदं दोषान्तरैरसङ्कीर्ण बाधस्थलं प्रजापतिनाप्यपरिहार्यम् ।।
ननु-बाधादिवत् असाधारणत्वादिरूपेणापि प्रतिबन्धकतेति कथं पञ्चैव हेत्वाभासा इत्याशङ्कायामाह-" बाधससत्प्रतिपक्षभिन्ना" इति । बाधः-साध्याभावविशिष्टपक्षादिः, सत्प्रतिपक्ष-विरोधिव्याप्तिविशिष्टहेतुकः बाधव्याप्य एव । तद्भिन्नाःसाभ्यां भिन्ना ये व्यभिचारविरुद्धासिद्धा हेत्वाभासाः, तद्वयाप्याः व्यभिचारादिव्याप्या ये साधारणाश्रयासिद्धाद्याः, ते तत्रैव-व्यभिचारादिष्वेवान्तर्भवन्तीति न तेषां पृथग्रूपतया प्रतिबन्धकता येनर्षिकृतपञ्चसङ्ख्याविरुद्धसङ्ख्या हेत्वाभासानामापतेत् । विपक्षे दोषमाह-अन्यथेति । ननु बाधव्याप्योऽपि सत्प्रतिपक्षः कथं पृथक् प्रतिबन्धको गणितः इत्याशङ्कायामाह-बाधव्याप्येति । मुनिना-गोतमेन पृथगुपदेशात्=प्रथमाध्यायस्य द्वितीयाह्निके–“सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः" : न्या० ५। २ । ४) इति पञ्चसङ्ख्याकथनात् । ननु सत्पतिपक्षस्य ये व्याच्या दोषास्तेषामपि पृथक् प्रतिबन्धकत्वं कुतो नाङ्गीक्रियते इत्याशङ्कायामाह-सत्प्रतिपक्षव्याप्यस्त्विति । अयमत्र सर्वसारः-- बाधस्य तु " अयं हेतुर्बाधित " इत्याकारकबाधज्ञानविषयकत्वेन प्रतिबन्धकता, सत्प्रतिपक्षस्यापि सत्प्रतिपक्षितत्वेन स्वतन्त्रतयैव प्रतिबन्धकता, साधारणादीनान्तु साधारणादित्वेन रूपेण नास्ति प्रतिबन्धकता। किन्तु " अयं हेतुर्व्यभिचारी " इत्येवं व्यभिचारादित्वेन रूपेणैव प्रतिबन्धकता भवति ।
* नहि पृथिवीत्वमिति—यद्यप्युत्पत्तिक्षणावच्छिन्ने घटे गन्धाभाववति पृथिवीत्वहेतोर्वत्तित्वाद् व्यभिचारस्तथापि प्रतियोगिव्यधिकरमसाध्याभावववृत्तित्वं व्यभिचारत्वम् । प्रतियोगिव्यधिकरणत्वञ्च प्रतियोग्यनधिकरणवृत्तित्वम् । तथाच-प्रतियोगिनो गन्धस्याधिकरण एव घटः । कुतः अव्याप्यवृत्तिपदार्थस्य अधिकरणता व्याप्यवृत्तिरेव स्वीकृता । अतो गन्धाधिकरणता घटादिषु सदैव वर्त्तते । गन्धस्या ऽव्याप्यवृत्तित्वेऽपि तस्या व्याप्यवृत्तित्वादित्याशयो दर्शनाचार्याणामिति मिति स्वामिविश्वेश्वराश्रमदण्डिनः ।