SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ बाधस्य स्वतन्त्रहत्वाभासत्वसाधनम्। २८३ हेत्वाभासाधिक्यप्रसङ्गात् । बाधव्याप्यसत्प्रतिपक्षस्तु भिन्न एव, स्वतन्त्रेच्छेन मुनिना पृथगुपदेशात् । सत्प्रतिपक्षव्याप्यस्तु न प्रतिबन्धक इति प्रघट्टकार्थः ॥ ७१ ॥ ७२॥ ___ (प्र० टी० ) नास्ति बाधितो हेत्वाभासः पञ्चम इत्यभिप्रायवाम्शङ्कते-नचेति । अयमर्थः- "वह्निरनुष्णो द्रव्यत्वाद् " इत्यादिबाधस्थले वह्निरूपे पक्ष हेतुरस्ति नवा ? । यद्यस्ति तदा अनुष्णत्वाभावरूपसाध्याभाववति जलादौ द्रव्यत्व हेतोवृत्तित्वात्साधारणानैकान्तिकत्वरूपो *व्यभिचार एव दोषः । यदि तु पक्षे हेतुर्नास्ति तदा स्वरूपासिद्धिरेवा दोष इति व्यभिचारस्वरूपासिद्धिरूपान्यतरदोषप्रयुक्त एव हेत्वाभासव्यवहारो भवतु, नतु बाधदोषप्रयुक्तो बाधितनाम्ना तथा व्यवहार इत्याक्षेप्तुराशयः। यद्यप्युकयुकथा तत्रान्यतरव्यवहारः कर्तव्य इति नास्ति पञ्चमो हेत्वाभास इति ते भाति तथापि उक्तदोषद्वयवत् तत्र स्वतन्त्रतया बाधोऽपि दोषः प्रतीयते तस्माद्यभिचारादिप्रतीतिभिन्नप्रतीतिरूपत्वानाधस्य तादृशदोषदुष्टो "बाधित" नामा स्वतन्त्रः पञ्चमो हेत्वाभास इति युक्तियुक्तः समाधातुराशयः । सिद्धान्ती स्वपक्षे उपपत्त्यन्तरं दर्शयति-किञ्चेति । यत्र-"अयोगोलकं धूमवद्वह्नः" इत्यादिस्थले "वह्निव्याप्यधूमवदयोगोलक" मिति परामर्शबुद्धिर्जाता ततो व्याभिचारज्ञानं विनैव "अयोगोलकं न धूमवत्' इत्याकारा बाधबुद्धिरुत्पन्ना, तत्र व्यभिचारज्ञानादेः ज्यभिचारज्ञानस्य स्वरूपासिद्धिज्ञानस्य च अकिञ्चित्करत्वात् असमर्थत्वात् बाधस्यैवानुमितिप्रतिबन्धकत्वं वाच्यम् । अर्थात् एतादृशस्थले व्यभिचारः स्वरूपासिद्धिश्च नानुमिति प्रतिबधीत: किन्तु बाध एवाऽनुमितिप्रतिबन्धकः यतो व्यभिचारादिस्तु परामर्शप्रतिबन्ध द्वाराऽनुमितिप्रतिबन्धको न स्वतन्त्रतया । बाधस्तु अनुमितिप्रतिबन्धे स्वतन्त्रः। तत्र तु परामर्शज्ञानं जातमेव तदुत्तरं व्यभिचारादिबुद्धया किं प्रतिबध्येतेति सूक्ष्म निरीक्ष्यम् । तस्मादेतादृशस्थले बाधस्य प्रतिबन्धकता बलादङ्गीकरणीया नतु व्यभिचारादीनाम् । व्यभिचारज्ञानादेरिति- आदिनाऽसिद्धिज्ञानपरिग्रहः । भेदादिति-- तथाच बाधस्थलेऽसिद्धिव्यभिचारान्यतरनियमेऽपि बाधज्ञानस्य व्यभिचारादिविषयकत्वाभावेन तस्य हेत्वाभासन्तरत्वमिति भावः । व्यभिचाराद्यसङ्कीर्णं बाधस्थलं दर्शयति-एवमित्यादिना । उत्पत्ति क्षणावच्छिन्ने-उत्पत्तिकालीने घटादौ । अयमाशयः- उत्पत्तिक्षणावच्छिन्नो घटो गन्धवान् पृथिवीत्वात् ” इत्यत्र उत्पत्तिक्षणावच्छिन्ने घटात्मके पक्ष पृथिवीत्वरूपं हेतुस्तु वर्तते परं गन्धो नास्ति । " जायमानं द्रव्यं क्षणमगुणं भवती "ति सिद्धान्तात् । एवं कृत्वाऽत्र पक्षे हेत्वभावरूपा स्वरूपासिद्धिर्न दोषः प्रतियोगिव्यधिकरणसाध्याभाववद्वृत्तित्वरूपो व्यभिचारदोषोऽपि नास्ति । * साध्याभाववत्तिः साधारणोऽनैकान्तिकः । । पक्षे हेस्वभावः स्वरूपासिद्धिः ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy