________________
२८२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्ड
. (प्र० टी० ) प्रासङ्गिकं प्राचां मतं खण्डयति-एवमिति । साध्याभावज्ञाने प्रमात्वज्ञानमेव प्रतिबन्धकम्, अर्थात् " हृदो वह्निमान् " इत्याकारानुमितिम्प्रति " हृदो वन्ह्यभाववान् " इत्याकारकवन्ह्यभावविषयको य " इदं ज्ञानं प्रमा " इति यथार्थत्वनिश्चयः स एव प्रतिबन्धक इति प्राञ्च प्राहुः, तदपि युनिशून्यमाभाति, यतो ग्राह्याभावावगाहित्वेन प्रतिबन्धकता स्वीक्रियते । नहि-" इदं ज्ञानं प्रमा" इत्याकारक ज्ञानं ग्राह्याभावावगाहि किन्तु ग्राह्याभावानवगाह्येव । अर्थात्-प्रकृते ग्राह्यो वह्निः ग्राह्या. भावो वन्यभावः तद्विषयको “वन्यभाववान् हृद" इत्याकारकं ज्ञानमेव प्रतिबन्धकम् । पक्षविशेष्यकसाध्याभावावगाहिज्ञाने प्रमात्वनिश्च यत्वेन प्रतिबन्धकतायां गौरवं, तदपेक्षया संशयनिश्चयसाधारण प्रामाण्यज्ञानाभावत्वेन प्रतिबन्धकताकल्पने लाघवमित्याशयेनाह-प्रमाणाभावात् गौरवाञ्चति ।
अयं भावः -- बाधाथले " इदं ज्ञानं प्रमा" इत्याकारकं ज्ञानमपि ग्राह्याभावमुद्रया प्रतिबन्धकं न स्वातन्त्र्येण । किन्तु घटोत्पत्तो दैवागतरासभ इवान्यथासिद्धतया "हृदो वह्निमान्" इत्यनुमितिज्ञानप्रति प्रतिबन्धकरूपं कारणं नार्हति भवितुम् , अतः प्रथमोपस्थितवन्ह्यादिसाध्याभावनिश्चयस्यैव प्रतिबन्धकता युका । विपक्षे दण्डमाहअन्यथेति । यदि ( अाग्रहवशात् ) साध्याभावज्ञाने प्रमात्वनिश्चयस्यैव बाधस्थले प्रतिबन्धकत्वं स्वीक्रियते तर्हि सर्वत्रैव सत्प्रतिपक्षादिस्थलेऽप्यनुमिति प्रति तदभाववत्ताशाने साध्याभाववत्ताज्ञाने प्रमात्वविषयकत्वेन प्रतिबन्धकतापत्तेः प्रमात्वनिश्चयस्यैव प्रतिबन्धकत्वं स्वीकर्तव्यं स्यात् । परं नत्वेवं मन्यते केनापीत्यर्थः । कस्य तर्हि प्रतिबन्धकतेति जिज्ञासायामाह-किन्तु भ्रमत्वज्ञानेति । भ्रमत्वज्ञानेन अनास्कन्दितं अनाप्लुतं भ्रमत्वज्ञानशून्यमिति यावत् तादृशं यद्वाधज्ञानं तस्य प्रतिबन्धकतैव सकलविज्ञसम्मतेति भावः । तत्रेति -बाधस्थले भ्रतत्वशङ्काविघटनेन-भ्रमत्वशङ्कानिवारणेन, प्रामाण्यश नं प्रमात्वज्ञानमपि क्वचिदुपयुज्यते इत्यक्षरार्थः । तथाचानुमिति. तत्कारणज्ञानान्यतरं प्रति साक्षात्प्रतिबन्धकीभूतज्ञ नविषयत्वाभावान्न साध्याभावज्ञानीय प्रमात्वं हेत्वाभास इति भावः ।
. (मुक्ता०) न च बाधस्थले पने हेतुसत्त्वे व्यभिचारः पते हेत्वभावे स्वरूपासिद्धिरेव दोष इति वाच्यम्, वाधज्ञानस्य व्यभिचारज्ञानादेभैंदात् । किंच यत्र परामर्शानन्तरं बाधबुद्धिस्तत्र व्यभिचारज्ञानादेर किंचित्करत्वाद्वाधस्थानुमितिप्रतिबन्धकत्वं वाच्यम् । एवं यत्रोत्पत्तिक्षणावच्छिन्ने घटादौ गन्धमाप्यपृथिवीत्यवत्ताज्ञानं तत्र बाधस्यैव प्रतिबन्ध कत्वं वाच्यम् । नच पक्षे घटे गन्धसयाकथं बाध इति वाच्यम्, पक्षतावच्छेदकदेशकालावच्छेदेनानुमितेरनुभवसिद्धत्वादिति । बाधसत्प्रतिपतभिन्ना ये हेत्वाभासास्तद्याया अपि तन्मध्य एवान्तर्भवन्ति । अन्यथा