________________
बाधः, तत्र प्रतिवध्यप्रतिबन्धकभावविचारश्च ।
२८१
नेच्छया अजन्यत्वात् अप्रामाण्यज्ञानानास्कन्दितत्वात्-संशयादीमथ्याज्ञानासांमश्रितत्वाच्च "वह्निरुष्णः” इत्यनुमितेः प्रतिबन्धकम्भाति । यतः अनुष्णत्वधर्मविषयकमुक्तं वन्ह्यनुमितिज्ञानं न लौकिकसन्निकर्षजन्यं नापि दोषविशेषजन्यं किन्तु- लौकिकसग्निकर्षाजन्यः दोषविशेषाजन्यञ्चास्ति । एवं "वन्हिरुष्ण" इति स्पार्शनप्रत्यक्षात्मकप्रतिबन्धकज्ञानस्य "वन्हिरनुष्ण" इत्याकारकमनुमितिज्ञानं प्रतिबध्यम्-अनुमित्याभासरूपमिति यावत् ।
लौकिकप्रत्यक्षभिन्नं सर्वमनुमित्यादिज्ञानं लौकिकसन्निकर्षाजन्यं तत्र “पीत: शङ्ख" इति ज्ञानं पित्तदोषजन्यमित्यवोचाम । तद्धर्मविशिष्टधर्मिणोऽभावज्ञानन्तु “पीत: शङ्ख" इत्यादिदोषविशेषजन्यं ज्ञानं वायत्वा सर्वस्यैव ज्ञानस्य प्रतिबन्धकमिति तत्त्वम् ।
केषाञ्चिन्मतं खण्डयितुमाह-नत्विति । अयमाशयः-साध्यसम्बन्धविषयकं ज्ञानं " साध्यसंसृष्टत्वज्ञानम्" इत्युच्यते । “पर्वतो वन्हिमानवा' इत्याकारकं संशय लाधारणं संशयसहितं यत् साध्यसंसृष्टत्वज्ञानं तदेवानुमितिहेतुरिति तादृश. ज्ञानप्रतिबन्धकत्वेन बाधः सत्प्रतिपक्षश्चेति द्वौ हेत्वाभासौ स्तः । नतु परस्परसाध्यभावाविषयकपरामर्शप्रतिबन्धकत्वेन सत्प्रतिपक्षस्य, साक्षादनुमितिप्रतिरोधकत्वेन च बाधस्य हेत्वाभासत्वं युवमिति केचिन्मन्यन्ते, तन्न युक्तमित्याह -"अप्रसिद्धसाध्य कानु. मित्यनापत्तेः" इति । न प्रसिद्धं साध्यं यस्याः सा अप्रसिद्धसाध्यका साचासावनु मितिः, तस्या अनापत्तिः असिद्धिरित्यर्थः । यदि उक्तरीत्या प्रतिबध्यप्रतिबन्धकभावः स्वीक्रियते तदा " पृथिवी इतरभेदवती "=जलादिपदार्थभेदवती इत्याकारानुमितिर्न स्यात्, यतः तादृशानुमितेः पूर्व पृथिव्यात्मकपक्षे जलादिभेदरूपसाध्यसम्बन्धस्य ज्ञानं न केनापि प्रकारण जातं, पक्षे साध्यसंसृष्टत्वज्ञानञ्चानुमितिहेतुं मन्यसे, प्रकृते तस्याभावात्कथमनुमितिः सम्भवेत् , कारणाभावे कार्याभावस्य सर्वसम्मतत्वात् । तस्मात् साध्यसंसृष्टत्वज्ञानमनुमितिहेतुरिति रिक्तं वचः ।
यत्तु-संशयसाधारणमित्युक्तं तदपि दुरुकम् । “ गगनं मेघवन्नवेति " संशयं विनापि “ गगनं मेघवत् घनगर्जनाद्" इति घनगर्जनहेतोः “ गगनं मेघवद " इत्याकारानुमिति दृश्यते यतः । इत्यञ्च साध्यतरायः साप्रसंसृष्टत्वज्ञानं वा नानुमितिकारणं, नवा तदुभयज्ञानप्रतिबन्धकवेन बाधसत्प्रतिपक्षयोर्हेत्वाभासता युवा, किन्तु परस्परसाध्याभावविषयकारामर्शप्रतिबन्धकवेन सत्प्रतिपक्षस्य हेत्वाभासत्वं, साक्षादनुमितिप्रतिबन्धकत्वेन च बाधस्य तथात्वमिति सिद्धान्तः।।
(मुक्का०) एवं साध्याभावाने प्रमात्वज्ञानमपि न प्रतिबन्ध प्रामाणाभावागौरवाच । अन्यथा सत्प्रतिपक्षादावपि तदभावप्याप्यवत्ताज्ञाने प्रमात्वविषयकत्वेन प्रतिबन्धकतापत्तेः। किन्तु भ्रमत्वज्ञानानास्क न्दितबाधादिबुद्धेः प्रतिबन्धकता, तत्र भ्रमत्वशङ्काविघटनेन प्रामाण्यज्ञानं क्वचिदुपयुज्यते । ___ अनुमितिहेतुभूतभवदाभिमततादृश साध्यसंसृष्टवरूपपक्षताज्ञानाभावादित्यर्थः ।