________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [ श्रनुमानखण्डे
( मु० ) बाधस्तु पक्षे साध्याभावादिः । एतस्यानुमितिप्रतिबन्धः फलम् । तद्धर्मिकतदभावनिश्चयो लौकिकसन्निकर्षाजन्य दोषविशेषाजन्यतद्धर्मिकतज्ज्ञानमात्रे विरोधीति । न तु संशयं साधारणं पक्षे साध्यसंसृष्टत्वज्ञानमनुमितिकारणं तद्विरोधितया च बाधसत्प्रतिपक्षयोर्द्वत्वाभासत्वमिति युक्तम् । श्रप्रसिद्धसाध्यकानुमित्यनापत्तेः, साध्यसंशयादिकं विनाऽ यनुमित्युत्पत्तेश्च ।
( प्र० दी० ) बाधं निरूपयति - बाधस्त्विति । पते साध्याभावादिर्बाधो दोषः तद्वान् हेतुर्बाधित हेत्वाभासः । अर्थात् यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स “बाधितः”। “यथा वह्निरनुष्णो द्रव्यत्वात्" इत्यत्र “ द्रव्यत्वात्” इति हेतुर्बाधितः । यत "अनुष्णत्वाभाववान् वह्निः" इत्याकारकस्पार्शनप्रत्यक्षप्रमाणेन " द्रव्यत्व" हेतोः साध्यस्यानुष्णत्वस्य अभावः पक्षे ( वन्हौ ) निश्चितः । तेन " वन्हिरनुष्ण ” इत्य - मितिनं भवतीति साक्षादयमनुमितिप्रतिबन्धक इत्याह- एतस्येति । साध्याभावादिरित्यादिना साध्यवदन्यत्वस्य पत्तावृत्तिसाध्यादेश्च परिग्रहः । श्रत्र नियामकमाह — तद्धर्मित्यादि । “ अनाहार्याप्रामाण्यज्ञानानास्कन्दिततद्धर्मि कतदभावनिश्चयो ३- लौकिकसन्निकर्षाजन्य दोषविशेषाजन्यतद्धमिकतज्ज्ञानमात्रम्प्रति विरोधि " इति निश्रम इत्यर्थः । उक्तनियमशरीरे प्रथमतत्पदेन प्रकृतोपयोगिनो धर्मस्य ग्रहणम्, द्वितीयत्पदेन धर्मिणो ग्रहणम् । अयमर्थः - बाघकालीनेच्छाजन्यं ज्ञानमाहार्यम् । यथा शालग्रामशिलायां विष्णुबुद्धिः यथा वा प्रतिमायां देवबुद्धिः । प्रकृते - यथा - "हदो वन्हिमान् इति ज्ञानानन्तरं " हदे वन्ह्यभावप्रत्यत्तं मे जायताम् " इतीच्छायां सत्यां " हृदो वन्ह्य भाववान् ” इतिज्ञानमाहार्यम् । यत्तन्न भवति तद् अनाहार्यम्" इत्युच्यते । संशयादिज्ञानमप्रमाण्यज्ञानम् । आस्कन्दितं सम्भिन्नं सम्मिश्रमित्यनर्थान्तरम् । न स्कन्दितमनास्कन्दितम् । यत् संशयादिज्ञानासम्मिश्रं तद् “अप्रामाण्यज्ञानानास्क - न्दित" मित्युच्यते । अनाहार्यः तथा श्रप्रामाण्यज्ञानानास्कन्दितः = संशयादिज्ञानर* हितो यस्तद्धर्मिकतदभावनिश्चयः = प्रकृतधर्मविशिष्टधर्मिणोऽभावविषयकं यथार्थज्ञानं तत् लौकिकसन्निकर्षाजन्यस्य तथा पित्तादिदोषविशेषाजन्यस्य तद्धर्मिकतज्ज्ञानमात्रस्य =प्रकृतधर्मविशिष्टधर्मिणो ज्ञानमात्रस्य प्रतिबन्धकमिति नियम इत्यर्थः । प्रत्यत्तभिन्नं ज्ञानमात्रं लौकिकसन्निकर्षाजन्यम् । " पीतः शङ्ख " इत्यादिज्ञानं दोषविशेषजन्यम् ।
66
श्रयमाशयः - योऽसौ प्रकृतधर्मविशिष्टधर्मिणोऽभावनिश्चयः स सर्वोपि - यल्लीकिकसन्निकर्षजन्यं न भवति यच्च दोषविशेषजन्यं न भवति तस्य सर्वस्यैव ज्ञानस्य प्रतिबन्धक इति नियमेन श्रनुष्णत्वधर्मविशिष्टानुष्णाभाववद्धर्मिविषयकं ज्ञानं अर्थात्
वन्हिरुष्ण: " इत्याकारकं स्पार्शनप्रत्यक्षरूपं ज्ञानं तत् श्रनाहार्यत्वात् = बाधकाली
* संशयादिज्ञानभिन्न इत्यत्र तात्पर्यम् ।
२८०
66
A