________________
प्रसिद्धिप्रपञ्चः।
साध्यनिष्ठो धर्मः साध्यतावच्छेदकः तस्याभावः साध्याप्रसिद्धिर्हेतुदोषः तद्दोषवान् हेतुः "साध्याप्रसिद्धो" हेत्वाभास इत्यर्थः । उदाहरणं यथा-"पर्वतः काञ्चनमयवह्निमान् धूमाद्" इति । अत्र " वह्निन काञ्चनमयः" इति वह्निरूपे साध्ये काञ्चनमयवह्नित्वरूपसाध्य. तावच्छेदकधर्मस्याभावे ज्ञाते सति " काञ्चनमयवन्हिव्याप्यधूमवानयं पर्वत " इत्याकारकः परामर्शो नोदेति । तस्याभावे च “ पर्वतः काञ्चनमयवह्निमान् " इत्यनुमितेरनुदयः । तस्मात् काञ्चनमयवह्विसाध्यसाधनाय प्रयुको धूमहेतुाप्यस्वासिद्ध इत्याशयवान् “ तथाच "-इत्यारभ्य “फल" मित्यन्तो ग्रन्थः ।
साधनाप्रसिद्धिं दर्शयति-एवमिति-हेतौ हेतुतावच्छेदकधर्मस्याभावः साधनाप्रसिद्धिः तद्वान् "साधनाप्रसिद्धो" हेत्वाभास इत्यर्थः । उदाहरति-यथाचेति । " पर्वतो वह्निमान् काञ्चनमयधूमाद् " इत्यर्थः । अत्र “धूमो न काञ्चनमयः" इति ज्ञाने जाते " यत्र वह्निः तत्र काञ्चनमयधूम" इति व्याप्तिज्ञानमेव नोदेति काञ्चनमयत्वधर्मस्य धूमहेतोरनवच्छेदकत्वात् । एवमस्य व्याप्तिज्ञानप्रतिबन्धः फलम् । ततोऽनुमितेरनुदयः । व्याप्तिज्ञानादेरिति -श्रादिना “वहिव्याप्यकाञ्चनमयधूमवान् पर्वत" इति पराशप्रतिबन्धोऽपि ग्राह्यः । हेतुतावच्छेदकमत्र काञ्चनमयधूमत्वम्, तद्विशिष्टो हेतुः काञ्चनमयधूमः ।
___ अत्रैवकदेशिमतमाह-एवमिति । इदन्तु-गुरुधर्मस्यानवच्छेदकत्वमितिवादिनो मतेनोकम् । अर्थात् “ सम्भवति लघुनि धर्मे गुरुधर्मस्यानवच्छेदकत्वम् " इति नियमात् नीलधूमत्वं न हेतुतावच्छेदकं गौरवात् । किन्तु धूमत्वमेव हेतुतावच्छेदकं लाघवात् । स्वावच्छिन्नाऽविषयकप्रतीतिविषयतावच्छेदकप्रकृतसाध्यव्याप्यतावच्छेदकधर्मत्वा. दिति भावः । एवं नीलधूमत्वविशिष्टहेतौ वह्विव्याप्तिज्ञानाभावः फलं, ततो नानुमितिः। एवञ्चायमपि म्याप्यत्वासिद्ध एव । “गुरुधर्मस्याप्यवच्छेदकत्व" मिति वादिनां मते तु " नीलधूमात् " इत्ययं सद्धेतुरेव नतु हेत्वाभास इत्याशयः।
® इदमिहसम्प्रधार्यम्-" सम्भवति लघौ गुरौ तदभावाद् " अयं नियमः स्वरूपसम्बन्धरूपावच्छेदकतायां नत्वनतिरिक्तवृत्तित्वरूपावच्छेदकत्वे इति न्यायविदः।
तत्र स्वरूपसम्बन्धरूपमवच्छेदकं प्रतियोग्यशप्रकारीभूतधर्मत्वम्-यथा प्रमेयधूमाभावप्रतियोगितावच्छेदकं धूमत्वम् । अनतिरिक्तवृत्तित्वरूपमवच्छेदकत्वन्तु तच्छून्यावृत्तिवे सति तदधिकरणवृश्यभावप्रतियोगित्वम्-यथा घटाभावप्रतियोगितावच्छेदकत्वं घटत्वे वर्तते । एवं तदधिकरणस्य तन्निष्ठधर्मावच्छेदकत्वम्-~-यथा-" मूले वृक्षे न कपिसंयोगः शाखायाम् " इत्यादौ वृक्षाधिकरणस्य मूलस्य वृक्षनिष्ठकपिसंयोगाभावावच्छेदकत्वम् अथच वृक्षाधिकरणस्य शाखादेवृक्षनिष्ठकपिसंयोगावच्छेदकत्वम । “ पर्वतत्वावच्छेदेन पर्वतो वह्निमान् " इत्यादौ पर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगत्वस्य संसर्गतावच्छेदकत्वावगाहनाद् व्यापकत्वमेवावच्छेदकत्वमित्यलम्पल्लवितेन ।