________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
स्याभावः । तथाच काञ्चनमयवह्निमानित्यादौ साध्ये साध्यतावच्छेदका. भावे ज्ञाते साध्यतावच्छेदकविशिष्टसाध्यव्याप्यवत्ताज्ञानरूपपरामर्शप्रतिबन्धः फलम् । एवं हेतौ हेतुतावच्छेदकाभावः साधनाप्रसिद्धिः । यथा च काञ्चनमयधूमादित्यादौ । अत्र हेतुतावच्छेदकविशिष्टहेतोर्शानाभावात्तहेतुकव्याप्तिज्ञानादेरभावः फलम् । एवं वह्निमान् नीलधूमादित्यादौ गुरुतया नीलधूमत्वं हेतुतानवच्छेदकमपि व्याप्यत्वासिद्धिरित्यपि वदन्ति ।
(प्र० टी०) असिद्धिं लक्षयति-असिद्धिस्त्विति । श्राश्रयासिद्धयादिभेदाभाव. वान् समुदाय असिद्धिरित्यर्थः। सा च त्रिधा। आश्रयासिद्धिः व्याप्यत्वासिद्धिः साधनाप्रसिद्धिरिति भेदात् । तत्र प्राद्यां लक्षयति-आश्रयासिद्धिरिति । पते पर्वतादौ यः पक्षनिष्ठो धर्मः पक्षतावच्छेदकः, तस्याभावः श्राश्रयासिद्धिः, तद्वान् हेतुराश्रयासिद्धो हेत्वाभास इत्यर्थः । एवमग्रेऽपि व्याख्येयम् । अस्योदाहरणे फलं दर्शयति--यत्र चेत्यादिना। अर्थात्--" काञ्चनमयः पर्वतो वह्निमान् धूमात् ' इत्यत्र पर्वतपक्ष काञ्चनमयत्वं धर्मः पक्षतावच्छेदको न वर्तत इति तस्याभाव आश्रयासिद्धिर्दोषः तादृशपक्षवृत्तितया प्रयुक्तस्तदोषवान् धूमहेतुराश्रयासिद्धो हेत्वाभासः । तथैव दर्शयति-" पर्वतो न काञ्चनमय ” इति ज्ञाने जाते " वहिव्याप्यधूमवानयं काञ्चनमयपर्वत" इति परामर्शप्रतिबन्धे सति “ पर्वतो वह्निमान्" इत्यनुमितिप्रतिबन्धः फलमित्यर्थः । एवमेव-"गगनारविन्दं सुरभि अरविन्दत्वात्सरोजारविन्दवत् ” इत्यत्र "अरविन्दत्वात्" हेतुरपि स्वरूपासिद्धो बोध्यः । गगनीयमरविन्दं नास्त्येवेत्यरविन्दे गगनीयत्वरूपपक्षतावच्छेदकाभावनिश्चयादस्य “सुरभिव्याप्यारविन्दत्ववद्गगनारविन्दम्”इति परामर्शप्रतिबन्धः फलम् । अत्रेदं विचार्यम्-"गगनारविन्दं नास्ति' इत्यत्र किमरविन्दत्वनिषेधः ? आहोस्विद् गगनीयत्वनिषेधः ? । सामानाधिकरण्य सम्बन्धेन गगनीयत्वविशिष्टारविन्दस्यारविन्दत्वमरविन्दे निषेधुमशक्यम् , अरविन्दस्य प्रसिद्धत्वात् (प्रत्यक्षप्रमाणसिद्धत्वात् ) किन्तु-" सविशेषणे विधिनिषेधौ सति विशेष्येऽन्वयबाधे विशेषणमुपसङ्क्रामत" इति न्यायेन गगनीयत्वस्यैव निषेध इति सुष्ठूनं पते पक्षतावच्छेदकाभाव इति । एष एव न्याय: पूर्वस्थापनायामपि योजनीयः ।
स्वरूपासिद्धिस्त्विति-व्याप्यत्वेन हेतुत्वेनाभिमतस्य हेतोर्यदि पक्षेऽभावः सः स्वरूपासिद्धिर्दोषः तद्वान् हेतुः "स्वरूपासिद्ध” इत्यर्थः । उदाहरति-हृदो द्रव्य. मिति । अत्र : हृदो न धूमवान् " इति ज्ञाने जाते " द्रव्यत्वव्याप्यधूमवानयं हृदः" इति परामर्शानुदयः फलं “ ह्रदो वह्निमान् " इत्यनुमितिर्न भवतीत्यर्थ इत्याशयेनाह" साध्यव्याप्य हेतुमत्ताज्ञानस्येति"।
साध्याप्रासद्धिं व्याप्यत्वासिद्धावन्तर्भावयितुमाह-साध्याप्रसिद्धिरपीति । एतेन साध्याप्रसिद्धयादीनामाधिक्यं निराकृतं भवति । तां लक्षयति-साध्य इति ।