________________
" रखकोषकारमते दोषान्तरम् , असिद्धिप्रपञ्चश्च । २७७ विशेषे शाब्दबोधे च नतु पृथक् प्रतिबन्धकता'' इत्यन्वयः । उक्तनियमानुरोधेन साध्याभावव्याप्यवत्ताज्ञानस्य अलौकिकसाक्षात्कारविशेषे शाब्दबोधे च पृथक् प्रतिबन्धकता. कल्पनमयुक्तमित्यर्थः । अर्थात् यत्र विषये साध्याभावविषयकं ज्ञानमुत्पन्नं तत्रैव अलौकिकसन्निकर्षजन्यसाध्यविषयकं ज्ञानमनुमितिज्ञानम्प्रति प्रतिबन्धकं, अलौकिकसन्निकर्षजन्यज्ञानादिकम्प्रति पृथक्प्रतिबन्धकतायां गौरवमेव । अतः सत्प्रतिपक्षस्थल साध्याभावविषयकपरामर्शात्मकप्रतिबन्धकसचे नैवानुमितिरिति बोध्यम् । तत्र तस्याः साध्याभावव्याप्यवत्ताज्ञाननिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यताकोटी प्रविष्टत्वादेवेति सिद्धम् । . एवं रत्नकोषकारमतानुसारं दर्शितप्रतिबध्यप्रतिबन्धकभावनियमे " अनुमिति. भिन्नत्वेन" इति पदस्य निवेशोऽपि निरावश्यकः । एतदेव स्पष्टयन्नाह नहि लौकिकसन्निकर्षस्थल इत्यादि । हि-यतः लौकिकसन्निकर्षस्थले प्रत्यक्षमिव सत्प्रतिपक्षस्थले न संशयानुमितिः प्रामाणिकीत्यन्वयः । लौकिकसन्निकर्षस्थले प्रत्यक्षस्य प्रामाण्यं सत्प्रतिपक्षस्थले च संशयानुमितेरप्रामाण्यमित्येव प्रामाणिकव्यवहार इत्यर्थः । .
यस्तु-" स्थाणुर्वा पुरुषो वा " इत्याकारकप्रत्यक्षसंशयोदाहरणेन सत्प्रति. पक्षस्थले संशयाकारानुमितिः स्वीकृता तदप्ययुक्तमित्याशयेनाह-यत्रत्विति । यत्रस्थाणुर्वा पुरुषो वेत्यादौ संशयस्थले उभयकोटिव्याप्यवत्ताज्ञानम्-उभयकोटिनिष्ठा या व्यापकता, तादृशव्यापकतानिरूपिता या व्याप्यता तद्वत्ताज्ञानम् , तत्रोभयंत्र कोटौ अप्रामाण्यज्ञानात् प्रमात्वाभावनिश्चयात् संशयो जायत इति शेषः । न, अन्यथा अप्रामाण्यज्ञानाभावे तु न संशयः । अर्थात् – कस्याञ्चित् कोटौ प्रामाण्यंनिश्चये सति न संशयः । अत्र हेतुमाह-गृहीताप्रामाण्यकस्येति-न गृहीतं ज्ञातम् अप्रामाण्यं यस्य तत् “अगृहीताप्रामाण्यक" तस्य तादृशस्यैव विरोधिज्ञानस्य प्रतिबन्ध कत्वम् । अर्थात् यस्य प्रामाण्यं निश्चितं तस्यैव विरोधिज्ञानस्य प्रतिबन्धकत्वं गृहीताऽप्रामाण्यकस्य तु प्रतिबध्यत्वमेव । एवं सत्प्रतिपक्षस्थले एकतरकोटेरप्यप्रामाण्ये गमकाभावात् परस्पराभावव्याप्यवत्ताज्ञानतया अनुमितिप्रतिबन्धे सिद्ध तत्र संशयाकारा. नुमितिस्वीकारो रत्नकोषकारस्यासमीक्ष्यकारितैवेति दिक् ।
(मुक्ता०) असिद्धिस्त्वाश्रयासिद्धयाद्यन्यतमत्वम्। आश्रयासिद्धिः पक्षे पक्षतावच्छेदकस्याभावः। यदि च काञ्चनमयः पर्वतोवह्निमानिति साध्यते तत्र पर्वतो न काञ्चनमय इति ज्ञाने विद्यमाने काञ्चनमये पर्वते परामर्शप्रतिबन्धः फलम् । स्वरूपासिद्धिस्तु पक्ष व्याप्यत्वाभिमतस्य हेतोरभावः । अत्र च हृदो द्रव्यं धूमादित्यादौ पक्ष व्याप्यत्वाभिमतस्य हेतोरभावे ज्ञाते पक्षे साध्यव्याप्यहेतुमत्ताज्ञानरूपस्य परामर्शस्य प्रतिबन्धः फलम् । साध्याप्रसिद्धयादयस्तु व्याप्यत्वासिद्धिमध्येऽन्तर्भूताः। साध्याप्रसिद्धिरपि व्याप्यत्वासिद्धिः । साच साध्ये साध्यतावच्छेदक