________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
तथा प्रतिपादितमधस्तात् । अर्थात् , पित्तादिदोषप्राबल्येन शङ्खादौ पीतस्वसाक्षात्कारस्यैवानुभविकतया शुक्लत्वज्ञाने विद्यमानेऽपि पित्तरूपदोषस्य प्रतिबन्धकत्वं कल्पयित्वा पीततासाक्षात्कारसामग्र्या अधिकबलवत्त्वम् । एवं दूरतादोष सत्यपि स्थाणुत्वपुरुषत्वयोः स्मृतौ संशयस्यैवोदयात् सामग्र्याः समबलत्वमेवेति फलबलेन धियामधिकसमबलभाव: कल्प्यत इति रत्नकोषकारः।।
:: तदेतन्मतं खण्डयति-तन्नेत्यादिना । तदभाववत्ताशाने . सतीतिसाध्याभाववत्ताज्ञाने सतीत्यर्थः । तदुपनीतभानेति-उपनीतभानम् अलौकिकसग्निकर्षजन्यसाक्षात्कारः । श्रादिना अनुमितिपरिग्रहः । अनुदयात्-उत्पत्त्यभावात् । लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यज्ञानमात्रे तस्य (साध्याभाववत्ताज्ञानस्य) प्रतिबन्धकता लाघवात् । अस्य-समाधानग्रन्थस्यायमभिप्रायः-धियां परस्परं प्रतिबध्यप्रतिबन्धकभावो लाघवानुरोधेनानुसरणीयः । तथाच-यन्त्र साध्याभावव्याप्यवत्तासाक्षात्कारः तत्रैव विषये साध्यविषयकोऽलौकिकसन्निकर्षजन्यसाक्षात्कारः अनुमितिः शाब्दबोधो वा न भवति । “ साध्याभावविषयक परामर्शप्रत्यक्षात्मकं ज्ञानं लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यज्ञानत्वावच्छिन्नम्प्रति ( ज्ञानमात्रम्प्रति ) प्रतिबन्धकम्" इत्यस्ति नियमः । अर्थात् साक्षात्कारात्मकसाध्याभावव्याप्यवत्ताज्ञानस्य लौकिकसम्निकर्षनिष्ठजमकतानिरूपितजन्यताशून्यज्ञानमात्रम्प्रति दोषविशेषनिष्ठजनकतानिरूपितजन्यताशून्यज्ञानमात्रम्प्रति च प्रतिबन्धकता । शाब्दबोधादिज्ञानं न लौकिकसन्निकर्षजन्यं, किन्तु पदज्ञानादिजन्यं “ पीत: शङ्ख" इत्यादिज्ञानञ्च न दोषविशेषाऽजन्यं किन्तु पित्तादिदोषविशेषजन्यमेव । इत्थं साध्याभावव्याप्यवत्ताज्ञानस्य शाब्दबोधादिज्ञानम्प्रति प्रतिबन्धकत्वं " पीतः शङ्ख " इत्यादिज्ञानम्प्रति चाऽप्रतिबन्धकत्वं दर्शितलाघवसिद्धमेवोपादेयं नतु प्रतिबध्यकोट्यवगाहिज्ञानशरीरे भिन्नभिन्ननियमनिवेशेन गौरवमादरणीयम् । तेन “पीतत्वाभावव्याप्यशङ्खत्ववानयं शङ्ख" इत्याकारकः परामर्शः “ पीतः शङ्ख' इति ज्ञानस्य न प्रतिबन्धकः शङ्खवृत्तिपीतिमखानस्य पित्तात्मकदोषविशेषजन्यत्वात् । साध्याभावविषयकं परामर्शात्मकं ज्ञानं शाब्द. बोधमनुमितिञ्च प्रतिबधाति नतूनाकारं ज्ञानमिति तु निष्कर्षः। ..एतदेवोपसंहारच्याजेनाह-* नतूपनीतभानविशेष इति । " उपनीतभान
तथाच-तत्र पीतत्वप्रकारकनिश्चयस्यैवोत्पत्या पित्तादिदोषस्यैव प्रतिबन्धकत्वं कल्प्यते, दूरत्वादिदोषे सत्यपि कोटिद्वयव्याप्यवत्ताज्ञानस्थले संशयस्यैवोत्पत्त्या तत्र समबलत्वमेव स्वीक्रियत इति भावः।
+कल्पनाप्रकारश्च-" पीततासाक्षात्कारसामग्री प्रबला सत्यपि शङ्ख शुक्लत्वज्ञाने पातः शङ्ख इत्यनुभवात् । " स्थाणु वा पुरुषो वा" इति संशयज्ञानं समबलदोषजन्यं द्वयोः स्मृतौ सल्यामपि उभयकोट्यवगाहनाद् यन्नैवं तन्नैवं" यथा घट इति ज्ञानम् ।