________________
रत्नकोषकारमतं तन्निरासश्च ।
२७५
मिति रत्नकोषकारनैयायिकस्य मतं दूषयितुमुपन्यस्यति-पत्र केचिदित्यादिना । केचित्-रत्रकोषकारप्रभृतयः । अस्य " वदन्ति" इत्यग्रिमेणान्वयः । “यथाघटाभाववत्ताज्ञाने" इत्यारभ्य " वदन्ति” इत्यन्तग्रन्थस्यायमाशयः-ज्ञानानां परस्परप्रतिबध्यप्रतिबन्धकभावोऽनुभवानुसारं कल्पनीयः नत्वन्यथाऽतिप्रसङ्गात् । तथाहि-कार्यविघटको धर्मः प्रतिबन्धको विरोधीति यावत् । यस्तद्विषय: असौ प्रतिबध्य इत्युच्यते । यत्र-घटवति भूतलेऽन्धकारादिना वस्तुव्यवधानेन वा प्रथम " घटाभाववद् भूतलम्" इति प्रत्ययो जातः, तत्र घटाभावव्याप्यवत्ताज्ञाने घटाभावनिष्ठाधेयतानिरूपितभूतलनिष्ठाधिकरणताज्ञाने अथवा भूतलनिष्ठाधिकरणतानिरूपितघटाभावनिष्ठाधेयताज्ञाने जातेऽपि पश्चाद् यथावद् घटचक्षुःसंयोगे सति-अर्थात् घटचक्षुःसंयोगेन " घटवद्भूतलम्" इत्याकारकं घटवत्ताज्ञानं जायत-घटवत्ताज्ञानं जातमित्यर्थः, तादृशस्थले चतुःसंयोगात्मकगुणस्य प्रबलतया घटाभावविषयकं ज्ञानं प्रतिबध्यं, घटवत्ताविषयकं ज्ञानं तु प्रतिबन्धकं मन्तव्यं यतोऽत्र दोषापेक्षया गुणः प्रबलः ।
____ यत्र निर्दष्टचक्षुप्मतः पुरुषस्य “पीतत्वाभावव्याप्यशङ्खत्ववानयं शङ्क" इति परामर्शो वर्त्तते तस्यैव च कालान्तरे सत्यपि शङ्ख पीतत्वाभावव्याप्यशङ्खत्ववत्ताशाने, सति पित्तादिदोषे अर्थात् पित्तादिदोषवशात् “पीतः शङ्ख" इति धीर्जायते-जातेत्यर्थः, तत्र गुणापेक्षया दोषस्यैव प्राबल्यमित्यत्र शङ्खवृत्तिश्वेतताज्ञानं प्रतिवध्यं पीतताज्ञानं तु प्रतिबन्धकम् ।
एवं कोटिद्वयव्याप्येति-अर्थात् यत्र तु मदान्धकारे स्थाणौ पुरुषे वा " स्थाणुर्वा पुरुषो वा" इत्याकारकमेकसिन्नेव धर्मिणि विरुद्धकोटि ( प्रकार ) द्वयो. पस्थापकं ज्ञानं जातं, तत्र " स्थाणुत्वव्याप्यवक्रकोटरादिमानयम्, पुरुषत्वव्याप्यकरचरणादिमानयम्" इति परस्परविरोधिपरामर्शद्वयाद् हेतोः प्रत्यक्षात्मकः संशयः भावाभावावगाहि ज्ञानं भवत्येव । एतादृशस्थले चतुःसंयोगादिर्गुणो वा प्रबलः तिमिरादिदोषो' वा दुर्बलः उभयोर्विपर्ययो वेति विनिगन्तुं न शक्यते । तथा एवमेव सत्प्रतिपक्षस्थले=ऽपि हेत्वोः समबलतया संशयरूपा-साध्यतदभावप्रकारिका संशयास्मिका अनमितिः परामर्शजन्यं ज्ञानं भवत्येव जायत एव । अर्थात् गुणदोषयोः समबलत्ववत् सत्प्रतिपक्षेऽपि द्वयोर्हेत्वोः समबलतया “ पर्वतो वन्हिमान्न वा” इत्याकारा संशयात्मिका, “शब्दो नित्यो न वा" इत्याकारा वा संशयात्मिकाऽनुमितिस्तत्र तत्र भवत्येवेति सत्प्रतिपक्षस्यानुमितिप्रतिबन्धकत्वोद्भावनमविचारितरमणीयम् । ननु-संशयं प्रति तादृशनिश्चयस्याप्रतिबन्धकत्वे एककोटिव्याप्यवत्तानिश्चयस्थलेऽपि कोटिद्वयोपस्थितिमहिम्ना संशयापत्तिरत आह-यत्र त्वैकेति
यत्र त्वैककोटिव्याप्यदर्शनं तत्राधिकबलतया द्वितीयकोटिभानप्रतिबन्धान संशयः,