________________
२७४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
कस्याप्याचार्यस्य सम्मतः । किन्तु यत्र उभौ हेतू परस्परं विरुद्धौ स्यातां तत्र साध्यतद. भावविषयकपरस्परप्रतिस्पर्धिपरामर्शीययथार्थज्ञानात् हेतौ सत्प्रतिपक्षत्वकल्पना युक्ता तस्मादगृहीतेत्यादिपरामर्शलक्षणमसङ्गतम् । निर्दुष्टं लक्षणन्तु-- स्वसाध्यविरुद्ध साध्याभावव्याप्यवत्तापरामर्शकलीनसाध्यव्याप्यवत्तापरामर्शविषयः सत्प्रतिपक्षः " । उदाहरणं यथा--हृदो वह्निमान् धूमात्, “ ह्रदो वन्यभाववान् जलाद्” इति । अत्र धूमहेतौ सत्प्रतिपक्षव्यवहारः । तथाहि प्रकृते "स्व" पदेन जलहेतुग्रहणं, तस्य साध्यो वन्यभावः, तद्विरुद्धं वह्निरूपं साध्यं तदभावविषयकपरामर्शसमानकाले एवं "वहिव्याप्यधूमवानयं हृद" इति हदे परामर्शविषयो धूमहेतुरेव सत्प्रतिपक्षव्यवहारभाक् ।
“ वन्यभावव्याप्यजलवान् हृद" इति परामर्शकाले जायमानो वन्हिसाध्य. विषयको यः परामर्शः " वहिव्याप्यधूमवानयं हृद'' इत्याकारः तद्विषयो धूमरूपहेतु: सत्प्रतिपक्ष इत्यर्थः । प्रस्थानरत्नाकरे तु- पक्षे साध्यधीप्रतिबन्धकः सत्प्रति. पक्ष:" यथा-जलमुष्णं स्पर्शवत्त्वात् , नोष्णमतेजस्त्वाद् ” इत्युक्तम् । अत्र जलात्मके पक्षे उष्णत्वधीप्रतिबन्धकत्वं स्पर्शवत्वहेतोविरोधिपरामर्शकाल एवेत्यपिज्ञेयम् । अत्रापि " उष्णत्वव्याप्यस्पर्शत्ववजलम् , उष्णत्वाऽभावव्याप्याऽतेजस्ववजलम्" इति परामर्शद्वयेन परस्परप्रतिबन्धाद् उष्णत्वस्योष्णत्वाभावस्य वा नानु. मितिरिति भावः।
(मु०) अत्र केचित्-यथा घटाभावव्याप्यवत्ताशाने विद्यमानेऽपि घटवतुःसंयोगे सति घटवत्ताशानं जायते । यथा च शङ्ख सत्यपि पीतत्वाभावव्याप्यशङ्खत्ववत्ताशाने सति पित्तादिदोषे पीतः शङ्ख इति धीर्जायते । एवं कोटिद्वयव्याप्यदर्शनेऽपि कोटिद्वयस्य प्रत्यक्षरूपः संशयो भवति । तथा सत्प्रतिपक्षस्थले संशयरूपानुमितिर्भवत्येव । यत्र चैककोटिव्याप्यदर्शनं तत्राधिकबलतया द्वितीयकोटिभानप्रतिबन्धान संशयः । फलबलेन चाधिकसमबलभावः कल्प्यत इति वदन्ति । तन्न, तदभावव्याप्यवत्ताशाने सति तदुपनीतभानविशेषशाब्दबोधादेरनुदया. लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यज्ञानमात्रे तस्य प्रतिबन्धकता लाघवात् । नतूपनीतभानविशेषे शाब्दबोधे च पृथकप्रतिबन्धकता गौरवात् । तथा च प्रतिबन्धकसवात्कथमनुमितिः। नहि लौकिकसन्निकर्षस्थले प्रत्यक्षमिव सत्प्रतिपक्षस्थले संशयाकारानुमितिः प्रामाणिकी, येनानुमितिभिन्नत्वेनापि विशेषणीयम् । यत्र च कोटिद्वयव्याप्यवत्ताज्ञानं तत्रोभयत्राप्रामाण्यज्ञानात्संशयो नान्यथाऽगृहीताप्रामाण्यकस्यैव विरो. धिज्ञानस्य प्रतिबन्धकत्वादिति ।
(प्र० टी० ) सत्प्रतिपक्षः साध्यतदभावयोः संशयं जनयति नत्वनुमिति प्रतिरुणद्धि, नहि तदभावव्याप्यवत्ताज्ञानस्य अनुमितिप्रतिबन्धकत्वे किमपि प्रमाण