________________
..
... सत्प्रतिपक्षविचारः।।
.. अयमाशयः-सत्प्रतिपक्षस्थले द्वौ हेतू परस्परं व्याप्तिज्ञानप्रतिबन्धको विरुद्ध तु एक एव हेतुः साध्याभावेन व्याप्तो व्याप्तिज्ञानप्रतिबन्धकतयाऽनुमितिप्रतिबन्धकः । ...भेदकान्तरमन्याह-साध्याभावसाधक + इति । प्रशक्तिविशषेति। प्रयोक्तुरिति शेषः । स्पष्टमन्यत् । रघुनाथभट्टाचार्यकृतदीधितिग्रन्थानुसारं सत्प्रतिपक्ष लक्षयति-सत्प्रतिपक्ष इति । साध्याभावस्य व्याप्यः साध्याभावव्याप्यः ।। साध्याभावव्याप्यो हेतुर्यस्मिन् पक्षे वर्त्तते असौ साध्याभावव्याप्यवान् पक्ष एव सत्प्रतिपक्षपदेनोच्यते । तदिदं सत्प्रतिपक्षदोषलक्षणं, तद्दोषवत्ता च हेतौ पूर्वोत्रज्ञानसम्बन्धेन ज्ञेया । यथा-" हृदो वह्निमान् धूमात्, हृदो वन्यभाववान् जलात् " इत्यादिः । अत्र-हृदपते वह्निसाध्यसिद्धये प्रयुको धूमहेतुः सत्प्रतिपक्षहेत्वाभासः। कुतः "जलाद्" इत्ययं हेतुः साध्यस्य वढेरभावेन व्याप्यः, तादृशसाध्याभावव्याप्यहेतुमान् हृदात्मक: पक्षः सत्प्रतिपत्तः, तादृशे हदे विद्यमानो धूमो हेतुरपि सत्प्रतिपक्ष: । अत्र द्वावेव हेतू परस्परं विरोधिनावित्युभयत्रापि सत्प्रतिपक्षव्यवहारः।
श्राचार्यान्तरमतेन सत्प्रतिपक्षलक्षणमाह-अगृहीताप्रामाण्यकेति ।। अस्यायमर्थः-न गृहीतं निश्चितं अप्रामाण्यं यस्य तदगृहीताप्रामाण्यकम् , तादृशं यत्साध्यव्याप्यवत्त्वं, तादृशसाध्यव्याप्यवत्वेन या उपस्थितिः=ज्ञानविशेषः तत्कालीनं यद् अगृहीताप्रामाण्यकसाध्याभावव्याप्यवत्त्वं, तद्रूपत्वेन य उपस्थितिविषयोऽसौ हेतुः तथा सत्प्रतिपक्षो हेत्वाभास: । अयमाशयः-" साध्यव्याप्यहेतुमानयं पक्ष" इत्याकारकपरामर्शज्ञानकाले यस्मिन्हेतौ अप्रामाण्यनिश्चयो न स्यात् यदि तस्मि व हेतौ " साध्याभावव्याप्यहेतुमानयं पक्ष" इत्याकारकः परामर्शोऽपि अप्रामाणिको निश्चितो न भवेत् , तदासौ हेतुः " सत्प्रतिपक्ष" इत्युच्यते । अस्य दूषकताबीजं दर्शयतिअत्रचेत्यादिना । अत्र च-सत्प्रतिपक्षे चेत्यर्थः । परस्पराभावव्याप्यवत्ताज्ञानात= परस्परसाध्याभावव्याप्तिज्ञानादित्यर्थः । परस्परानुमितिप्रतिबन्धः अर्थात् “ हृदो वह्निमान् ” "हृदो वयभाववान्" इत्यन्योन्यानुमितिप्रतिबन्धः फलम् । परमिदं न सम्यक् एकस्मिन्नेव हेतौ साध्यतदभावविषयकपरामर्शस्याऽसम्भवात् । नहि "कपिसंयोगी एतत्वात्-पुरोवर्त्तिवृतत्वात् " इत्यत्र सत्प्रतिपक्षव्यवहारः प्रामाणिकानाम् ।
एतदुक्तम्भवति--यत्रैकस्मिन्नेव वृत्ते शाखावच्छेदेन कपिसंयोगः मूलावच्छेदेन तदभावोऽपि, तदेतद्वयमेव पुरोवर्त्तिवृक्षत्वहेतुना साध्येत । तत्र " कपिसंयोगव्याप्यपुरोवर्त्तिवृक्षत्ववानयं वृक्षः, कपिसंयोगाभावव्याप्यपुरोवर्त्तिवृक्षत्ववानयं वृक्षः" इति कपिसंयोगतदभावविषयकविरोधिपरामर्शन एकस्मिन्नेव वृक्षत्वहेतौ सत्प्रतिपक्षव्यवहारो न
। यद्यपि साध्याभावव्याप्यवान्पक्षः सत्प्रतिपक्षः, विरोधस्तु साध्यव्यापकीभूताभावप्रतियोगी प्रकृतो हेतुरिति स्वरूपभेदो वर्तत एव तथापि यथा साधारणादीनां परस्परवैलक्षण्येपि दूषकतावीजस्यैक्यनैकहेत्वाभासत्वं तथा सत्प्रतिपक्षविरोधयोरपि विरोध्यनुमितिसामग्रीत्वेन प्रतिबन्यरूपदूषकताबी जैक्यादेकहेत्वाभासत्वं स्यादिति शङ्ककाशयः । . .