________________
२७२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
व्यतिरेकेति-साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपायाः ( वक्ष्यमाणायाः ) प्रतिबन्धः क्रियते । “ प्रमेयत्वं हेतुरनित्यत्वाभावववृत्तिः" इति निश्चये उक्नाकारब्याप्तिज्ञानप्रतिबन्धे " सर्वमनित्यम्" इत्यनुमितिप्रतिबन्ध: सिद्धः ।
इदन्तु बोध्यम्-केवलान्वयिसाध्यकस्थले तु अन्वयव्याप्तिज्ञानादनुमितिभवत्येवेति। यथा-"घटोऽभिधेयः प्रमेयत्वात् पटवत्" इत्यादौ यत्र २ प्रमेयत्वं तत्र २ अभिधेयत्वमित्यन्वयव्याप्तिनिश्चयस्थलं पटः । तस्मादत्र नाऽस्य हेत्वाभासत्वम् ।
(मुक्का०) विरुद्धस्तु साध्यव्यापकीभूताभावप्रतियोगी। अयं साध्याभावग्रहसामग्रीत्वेन प्रतिबन्धकः । सत्प्रतिपते तु प्रतिहेतुः साध्याभावसाधकः, अत्र तु हेतुरेक एवेति विशेषः । साध्याभावसाधक एव हेतुः साध्यसाधकत्वेनोपन्यस्त इत्यशक्तिविशेषोपस्थापकत्वाच विशेषः। सत्प्रतिपक्षः साध्याभावव्याप्यवान्पक्षः । अगृहीताप्रामाण्यकसाध्यव्याप्यवत्त्वोपस्थितिकालीनागृहीताप्रामाण्यकसाध्याभावव्याप्यवत्तोपस्थितिविषयस्त. थेत्यन्ये । अत्र च परस्पराभावव्याप्यवत्ताज्ञानात्परस्परानुमितिंप्रतिबन्धः फलम्।
___(प्र० टी० ) विरुद्ध लक्षयति-विरुद्धस्त्विति साध्यस्य व्यापकीभूतो योऽभाव: अर्थात् साध्यसमानाधिकरणे वर्तमानो योऽभावः तस्य प्रतियोगी विरुद्धो हेत्वाभासः । ॐ साध्याभावव्याप्तो विरुद्ध इत्यर्थः । उदाहरणं यथा-" शब्दो नित्यः कृतकत्वात्" इति अत्र शब्दः पक्षः, नित्यत्वं साध्यं, कृतकत्वं हेतुः। परन्तु शब्दात्मके पक्ष नित्यत्वसाधनाय प्रयुकः "कृतकत्वात्" इति हेतुविरुद्धः। यतो नित्यत्वसाध्यस्य व्यापकीभूतोऽभावः कृतकत्वाभावो गगनादिषु वर्तते तादृशाऽभावस्य प्रतियोग्येव कृतकत्वमिति लक्षणसङ्गतिः । अर्थात्-कृतकत्वं हेतः साध्याभावेन अनित्यत्वेन व्याप्तः यत्र २ कृतकत्वं तत्र २ अनित्यत्वमिति व्याप्तेराश्रयः, अतो विरुद्धः । साध्यसाधनाय प्रयुक्तो हेतुर्यः साध्याभावमेव साधयेदसौ विरुद्ध इति तु परः सारः । मुनिरपि-सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध' (न्या० १।२६) इत्याह । “अनित्यत्वव्याप्यकृतकत्व वानयं शब्द " इत्याकारकविरोधिपरामर्शज्ञानात् " नित्यः शब्दः" इत्याकारानुमितेः प्रतिबन्ध इत्याशयेनाह-अयश्चति । साध्याभावग्रहः-साध्याभावज्ञानम्, तत्सा. मग्रीत्वेन तत्साधकत्वेनेत्यर्थः । अत्राह नीलकण्ठः-साध्याभावव्याप्तिः साध्यवदन्यवृत्तित्वम् , असाधारणस्य तु निश्चितसाध्यवदवृत्तित्वरूपतया नाऽभेदः । नवीनमते तु-साध्याभावस्य व्यतिरेकव्याप्तिः साध्यव्यापकाभावप्रतियोगित्वरूपेति नासाधारण्याभेदः । एतादृशव्याप्तिविशिष्टहेतुमत्ताज्ञानं साक्षादनुमितिप्रतिबन्धकमिति ध्येयम् । ननु विरुद्धसत्प्रतिपक्षयोः साध्याभावसाधकत्ये न कश्चिद्विशेष इत्याशङ्कायामाह सत्प्रतिपक्ष इति । प्रतिहेतुः द्वितीयहेतुः ।
® साध्याभावनिरूपितव्याप्त्याश्रयः ।