________________
हेत्वाभासप्रपञ्चः।
२७१
छतेन चेति-व्याप्तिज्ञानप्रतिबन्ध इति । साध्यवदन्यावृत्तित्वरूपा साध्यसामानाधिकरण्यरूपा या व्याप्तिः तस्या ग्रहो ज्ञानं तत्प्रतिबन्धः । उदाहरणं तुं-" पर्वतो वह्निमान् प्रमेयत्वाद् " इति । अत्र हि प्रमेयत्वं वन्हिरूपसाध्यवदन्यहृदवृत्तित्वाद् व्यभिचारी, साधारणो व्यभिचारीत्यर्थः। नचोक्कं साधारणलक्षणं विरुद्धेऽतिव्याप्तमिति वाच्यम् । उपधेयसङ्करेप्युपाधेरसाङ्कर्यादिति न्यायेन विरुद्धस्यापि सव्यभिचारत्वेन लक्ष्यत्वात् । अधिकन्तु नृसिंहप्रकाशिकायां द्रष्टव्यम् । असाधारणं लक्षयतिसाध्यासमानाधिकरण इति । साध्यसामानाधिकरण्यात्मकव्याप्तिविकल इत्यर्थः । एतत्प्रतिबध्यं व्याप्तिज्ञानमित्याशयेनाह -तेनेति । असाधारणहेत्वाभासेनेत्यर्थः । साध्यसामानाधिकरण्यग्रहः सिद्धान्तव्याप्तिग्रह इत्यर्थः । अस्योदाहरणस्थलमाह"यथा शब्दो नित्य" इति । शब्दवं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति । " शब्दत्वं हेतुर्न साध्यसमानाधिकरणः" इति निश्चये जाते "शब्दो नित्य" इत्यनुमितिर्नोदेति । मीमांसकास्तु-शब्दोऽनित्यः-शब्दत्वात्" इतीदमप्युदाहरणमसाधारणस्य मन्वते तन्न युक्रम्, कार्यत्वहेतुना शब्दस्यानित्यत्वे निश्चिते अनित्यत्वरूपसाध्यसमानाधिकरणत्वात् शब्दत्वस्य कथमसाधारणता । किन्त्वसाधारणत्वस्य भ्रान्तिरेवेत्यर्थकः "शब्दोऽनित्य' इत्यादिग्रन्थः।
प्राचां मतमाह-अन्येत्विति । अस्य-" वदन्ति " इत्यग्रेणान्वयः । सपक्षावृत्तिरिति-सपने निश्चितसाध्यवति न वृत्तिर्यस्य सः सपक्षावृत्तिः । शिष्टं व्याख्यातप्रायम् । सारस्तु-" पचे साध्यसन्देहदशायामेवाऽसाधारणस्य हेत्वाभासता नतु निश्चयदशायाम् । तदा पक्षस्यैव सपक्षत्वेन निश्चितसाध्यवघ्यावृत्त. त्वाभावादित्यनित्यदोषत्वमसाधारणस्य " इति बोध्यम् । अनुपसंहारिणं लक्षयति'अनुपसंहारीति । अत्यन्ताभावस्य न प्रतियोगी साध्यकादिर्यस्य । साध्यमेव साध्यकम् प्रादिना पक्षहेत्वोर्ग्रहः । तथाच यत्र पक्षः साध्यं हेतुश्चैतत्त्रयं केवलान्वयि स्यात् सः अनुपसंहारी अनैकान्तिको हेत्वाभासः । उदाहरणं यथा"सर्वमनित्यं प्रमेयत्वात्" इति । अत्र सर्वस्यापि पक्षत्वात् व्याप्तिग्रहस्थलान्तराभावः । सर्वमिति पक्षोऽत्यन्ताऽभावाऽप्रतियोगी हेतुरपि तथा। एतस्य फलं दर्शयति-तेन चेति इत्याहुः । तेन न यथाश्रुते "कपिसंयोगी एतवृक्षत्वात् " इत्यादौ एतवृक्षत्वादेः कपिसंयोगाभावववृत्तित्वादतिव्याप्त्यापत्तिः ।
ॐ अस्याऽनुमितितत्करणान्यतरविरोधिज्ञानविषयत्वाभावात् कथं हेत्वाभासत्वमिति शङ्कायां दूषकताबीजमाह-तेन चेति ।
+ असाधारणस्याऽनित्यदोषत्ववादिनामित्यर्थः।
* पक्षो वा साभ्यं वा हेतुर्वेत्यत्र तात्पर्यम् । यदा बहुव्रीहिः समासो न विवक्षितस्तदा दोषस्यैवेदं लक्षणम् ।