________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
तत्सम्भवस्थलाभिप्रायेण । अर्थाद् हेत्वाभासानामियत्ता कत्तुं न शक्यते * दोषाणामानन्त्यात्, किन्तु “ वायुर्गन्धवान् स्नेहात् " इत्यत्रैकस्मिन्नेवाऽनुमाने पञ्चापि दोषा घटयितुं शक्यन्ते । तथाहि-गन्धाभाववति जले वृत्तित्वात् स्नेहहेतुळमिचारी, गन्धवत्यां पृथिव्यामविद्यमानत्वाद् विरुद्धोऽपि, “वायुर्गन्धाभाववान् अपृथिवीत्वाद्" इति सत्प्रतिपक्षितोऽपि, स्नेहहेतुर्वाय्वात्मके पक्षे न वर्त्तते “ पाकजगुणवत्त्वो " पाधिना सोपाधिकोपीत्यसिद्धः, नेहरूपहेतोः गन्धरूपसाध्यस्य वायुपक्षेऽभावोऽप्यस्तीति बाधित इत्यभिप्रायेणाचार्यसूत्रानुसारी " हेत्वाभासास्तु पञ्चधा" इतिमूलग्रन्थो विद्यते नतु सम्भाव्यमानहेत्वाभासान्तरल्यावृत्यर्थ इति ध्येयम् ॥७॥ (का०) आद्यः साधारणस्तु स्यादसाधारणकोऽपरः ।
तथैवानुपसंहारी त्रिधाऽनैकान्तिको भवेत् ।।७२॥
(मु० ) एवञ्च साधारणाद्यन्यतमत्वमनैकान्तिकत्वम् । साधारण: साध्यवदन्यवृत्तिहेतुः । तेन च व्याप्तिग्रहप्रतिबन्धः क्रियते । असाधारणः साध्यासमानाधिकरणो हेतुः । तेन साध्यसामानाधिकरण्यग्रहः प्रतिबध्यते । तथा शब्दो नित्यः शब्दत्वादित्यादावसाधारण्यं, शब्दोऽनित्यः शब्दत्वादित्यादौ त्वसाधारण्यभ्रमः । अन्ये तु सपक्षावृत्तिरसाधारणः । सपक्षश्च निश्चितसाध्यवान् । इत्थं च शब्दोऽनित्यः शब्दत्वादित्यादी यदा पक्षे साध्यनिश्चयस्तदा नासाधारण्यं तत्र हेतुनिश्चयादिति वदन्ति । अनुपसंहारी चात्यन्ताभावाप्रतियोगिसाध्यकादिः । अनेन च व्यतिरेकव्याप्तिज्ञानप्रतिबन्धः क्रियते।
(प्र० टी० ) परममूले आद्यं विभजते-आद्य इति । हेत्वाभाससामान्य. लक्षणमुक्का मूले अनैकान्तिकं लक्षयति-एवञ्चति । अनेकान्तिकत्वं साधारणत्वाद्यपाधित्रितयान्यतमत्वव्याप्यमित्यर्थः । साधारणादीति-श्रादिना असाधारणाऽनुपसंहारिणोर्ग्रहः । साधारणं लक्षयति-साधारण इति । साध्यवदन्य इति–साध्यं विद्यतेऽस्येति साध्यवान् पर्वतादिः पक्षः, ततोऽन्यः साध्यवदन्यः जलहृदादिर्विपक्षः तवृत्तिहेतुः साधारणोऽनैकान्तिक इत्यर्थः । सिाध्याभाववद्वृत्तिरिति फलितम् ।
_* दोषाणामानन्त्यादिति-हेतुहेमाभासभेद: प्रपञ्च्यमानः षट्सप्ततिशतम्७६०० इति न्यायवात्तिके । तत्तात्पर्ये तु केवलमसिद्धाश्रयाणां व्यधिकरणविशेषणविशेष्यसन्दिग्ध. विशेषणविशेष्याऽसमर्थविशेषणविशेष्यभेदेन असङ्ख्याता भेदाः प्रदर्शित': किम्पुनः सर्वेषाम् । द्रष्टव्यञ्चात्र प्रथमाध्याये द्वितीयाहिके चतुर्थे सूत्रे न्यायवात्तिकं न्यायवात्तिकतात्पर्यञ्च ।
+ साध्यस्याभावः साध्याभाव इति षष्ठयर्थ: प्रतियोगित्वम् । तथाच-यः साध्यप्रतियोगिका. भावववृत्तियों हेतुः स साधारसोऽनैकान्तिको हेत्वाभास इत्यर्थः । प्राश्चस्तु-साध्येन अभावः साध्वाभावः इति व्युत्पत्त्या साध्यावच्छिन्नप्रतियोगिताकभेद एव साध्याभावशब्दार्थ