________________
हेत्वाभासपञ्चत्वोक्किसमर्थनम् । एकहेताविति एकहेतौ=प्रमेयत्वादिहेतौ । व्यभिचारशानेऽपि साध्याभावववृत्तित्वग्रहेऽपि अर्थात् वह्निविशेष्यकवह्निसमानाधिकरणाऽभावप्रतियोगितावच्छेदकधूमत्वात्मकव्यभिचारनिष्ठयत्किञ्चित्सम्बन्धावच्छिन्न प्रकारताशालिनिश्चयेऽपि । हेत्वन्तरेण धूमादिना, वन्ह्यादिसाध्याऽव्यभिचरितेनेति शेषः । अनुमित्युत्पत्तेः= " पर्वतो वह्विमान्" इत्याद्यनुमितिसत्त्वात् । तदभावाद्यनवगाहित्वाच-ग्राह्या( साध्या ) भावीद्यनवगाहित्वात् । अर्थात्-" पर्वतो वन्ह्यभाववान् " इत्याकारकवन्यभावाविषयकत्वात् व्यभिचारज्ञानस्यानुमितिविरोधित्वाऽभावेऽपि = " प्रमेयत्वं हेतुर्व्यभिचारी" इत्याकारकव्यभिचारज्ञानस्य “ पर्वतो वह्निमान् ' इत्याकारकधूमहे. तुकाऽनुमितिप्रतिबन्धकत्वाऽभावेऽपि न क्षतिः=नाव्याप्तिः हेत्वाभाससामान्यलक्षणस्य व्यभिचारेऽव्याप्तिनत्यर्थः । अस्य साक्षादनुमित्यप्रतिबन्धकत्वेऽपि परम्परया तत्प्रतिबन्धकत्वमस्त्येवेति भावः ।
वस्तुतस्तु एवं लापनीयम्-तदभावाद्यनवगाहित्वाञ्चेति-अनुमित्यभावानवगाहित्वादित्यर्थः । अयं भाव:-यथा-"हृदो वह्निमान्" इत्याकारानुमित्यभावावगाहित्वं “ हृदो वन्यभाववान् " इति बाधदोषस्य, तथा “ पर्वतो वह्निमान् " इत्याकारानुमित्यभावावगाहित्वं "वन्यभावववृत्ति प्रमेयत्वम्" इति व्यभिचारदोषस्य नास्ति, तथापि तत्करणान्यतरत्वनिवेशेन व्यभिचारादौ हेत्वाभाससामान्यलक्षणस्याऽव्याप्तिर्नास्ति । अयमत्र सारः-साध्याभावावगाहित्वाद् बाधादिदोषाणां साक्षादीमीतप्रतिबन्धकत्वं युक्रं नतु तथा व्यभिचारादिदोषाः साक्षादनुमित्यभावावगाहिनः सपक्षस्थले साध्याभावानवगाहित्वात्तेषाम् , तथापि दर्शितरीत्या अनुमितिकरणव्याप्तिज्ञानादिप्रतिबन्धकत्वात् परम्परया तेषामप्यनुमितिप्रतिबन्धकत्वं नापन्होतुं शक्यते । इत्थच हेत्वाभाससामान्यलक्षणस्य " धूमवान्वन्हे " रित्यादौ न क्षति: नाब्याप्तिरित्यर्थः । “सङ्क्षेप" इति-अधिकमाकरग्रन्थेषु द्रष्टव्यमितिबालबुद्धिग्याकुलताभयान प्रपञ्चितमित्यर्थः ।
यादृशपक्षसाध्यहेताविति-अस्यायमर्थः यत्पक्षके यत्साध्यके हेतौ यावन्तो दोषाः प्रतीयेरन् तावन्त एव तत्र भिन्ना भिन्ना हेत्वाभासा मन्तव्याः । पञ्चत्वकथनन्विति-यत्तु “सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः" (न्या० २।२।४५) इत्याचार्योक्त्यनुरोधिमूलकृत्पञ्चत्वोनिश्च
* गादाधर्यादिग्रन्थेष्वित्यत्र तात्पर्यम् ।
+ तथाच यादृशविशिष्टविषयकत्वमनुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तादृशविशिष्टान्तराघटितत्वेनेति । यादृशविशिष्टविषयकत्वं तथाविधं सादृशविशिष्टो दोष इति पर्यवसितोर्थ इत्यादि बहूक्तं रामरुयाम् । इह बालाऽनुपयोगं मत्वा सारदृष्ट्या अप्यस्माभिर्नाधिकं प्रपतिम् । तथा क्रियमाणेऽप्याधुनिकानां सुकुमारधियां काठिन्यानतिवृत्तेः ।