________________
२६८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
अनित्यदोषवादी समाधत्ते-तत्रेति । तत्र-बाधभ्रमकालीने धूमादिसद्धेतौ ज्ञानस्य="साध्याभाववान् पक्षो हेतुश्च" इत्याकारकज्ञानस्य सम्बन्धत्वाऽकल्पनात्एकज्ञानविषयत्वसम्बन्धाकल्पनात्। अर्थात् बाधभ्रमकालीने एकज्ञानविषयत्वसम्बन्ध. कल्पनैव प्रमाणशून्या, यतस्तत्र "अयं (धूमादि) हेतुर्बाधित" इति व्यवहारो न जायते । धूमादिसद्धतौ तादृशव्यवहाराभाव एव एकज्ञानविषयत्वसम्बन्धस्याघटकः प्रतिरोधक इति यावत्, तत् कथं तत्र लक्षणातिव्याप्तिः स्यादित्यर्थः ।
अत्र सत्प्रतिपक्षित इति-पत्र-प्रतिपरामर्शकालीने धूमादिसद्धेतौ "अयं हेतुः सत्प्रतिपक्षित" इत्याकारकव्यवहारसत्त्वात् दर्शितरीत्या एकज्ञानविषयत्वसम्बन्धकल्पना युज्येत नतु बाधभ्रमस्थले तादृशकल्पनायां किमपि मानं पश्यामः । तस्मात्सत्प्रतिपक्षोऽनित्यो दोष इति पक्षेऽपि न दोषः । बाधस्तु नित्य एव । आहुरित्यस्वरसः सूचितः । तद्वीजन्तु-सत्प्रतिपक्षस्य बाधव्याप्यतया व्याप्यसत्त्वे व्यापकसत्त्वस्याऽवश्यम्भावात् सद्धेतोर्बाधितत्वमावश्यकमेव । यदि तथाव्यवहाराभावात् तस्याऽबाधित्वमुच्यते तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेः सत्प्रतिपक्षितत्वमपि नाङ्गीकर्त्तव्यम्, भ्रमादेव सत्प्रतिपक्षितत्वव्यवहारोपपत्तेरिति ज्ञेयम् । अनुमितिविरोधित्ववेति-अस्यायमर्थः-" यादृशविशिष्टविषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरविरोधित्वं तत्त्वं हेत्वाभासत्वमिति" लक्षणं कर्त्तव्यम् । अन्यथा “अयं हेतुर्व्यभिचारी" इत्याकारकज्ञानस्य साक्षादनुमितिविरोधिता नास्तीति व्यभिचार्यादिहेतुष्वव्याप्तिः स्यात्
अनुमितिपदेनाधिकार्थग्रहणे तु व्यभिचार्यादिहेतुषु व्याप्तिज्ञानप्रतिबन्धद्वाराऽनुमितिप्रतिबन्धकत्वेन नाव्याप्तिरिति भावः।
किञ्च-यद्धेतुविषयकं दोषज्ञानं जातं तद्धेतुविषयिकाया एवानुमितेः प्रतिबन्धकं ज्ञेयम् । यथा “ पर्वतो वह्निमान् प्रमेयत्वाद् ” इत्यत्र " अयं प्रमेयत्वहेतुर्व्यभिचारी वतिरूपसाध्याभाववति हृदेऽपि विद्यमानत्वाद्” इति "प्रमेयत्व" हेतौ व्यभिचारात्मकदोषज्ञाने जाते तद्धेतुकाया अनुमितेरेव तादृशदोषज्ञान प्रतिबन्धकं नतु धूमहेतुकायाः पर्वतपक्षकाया वन्ह्यनुमितेरित्याशयवानाह-दोषज्ञानञ्चति । यद्धेतुविषयकम्यद्धेतुविशेष्यकयद्धतुघटितव्यभिचारप्रकारकम् । तद्धेतुकानुमितौ-तद्धेतुघटितनिरुकाव्यभिचरितसाध्यसामानाधिकरण्यप्रकारक-तद्धेतुविशेष्यकव्याप्तिज्ञानकरणकानुमितितत्करणान्यतरस्मिन्नित्यर्थः । प्रतिबन्धकम् अनुमितिविघटकम् । तेन हेतुविशेषान्तर्भावेन प्रतिबध्यप्रतिबन्धकभावस्वीकारेणेत्यर्थः ।
* अनुमितिपदेनाधिकार्थग्रहणे तु इति । अजहत्स्वार्थवृत्त्या अनुमितिपदमनु. मितिनिष्ठकार्यतानिरूपकसम्बन्धित्वेनानुमितितत्कारणज्ञानपरम् । सम्बन्धित्वञ्च-तत्कार्यताविषयकसाक्षात्कारजनकसाक्षात्कारविषयतात्मकनिरूपकत्वम् । अधिकन्तु गादाधों तद्विवेचनायां गोलोकनाथ्यां कालीशाङ्कर्याच अभिहितमिति तत एव कणहत्य निरीक्षणीयम् ।