________________
हेत्वाभाससामान्यलक्षणम् ।
२१७
हेत्वाभासत्वम् । सत्प्रतिपक्षे विरोधिव्याप्त्यादिकमेव तथा। तद्वत्त्वं च हेतो नरूपसम्बन्धेन । न चैवं वह्निमान् धूमादित्यादौ पक्ष बाघभ्रमस्य साध्याभावविषयकत्वेनानुमितिविरोधित्वाज्ञानरूपसम्बन्धेन तत्त्वस्थापि सत्त्वात्सद्धेतोरपि बाधितत्वापत्तिरिति वाच्यं, तत्र ज्ञानस्य सम्बन्ध त्वाकल्पनात । अत्र सत्प्रतिपक्षित इति व्यवहारेण तत्कल्पनात् । तत्र बाधित इति व्यवहाराभावादित्याहुः । अनुमितिविरोधित्वं च अनुमितितत्करणान्यतरविरोधित्वम् तेन व्यभिचारिणि नाव्याप्तिः। दोषज्ञानश्च यद्धेतुविषयकं तद्धेतुकानुमितौ प्रतिबन्धकम् । तेनैकहेतौ व्यभिचारग्रहे हेत्वन्तरेणानुमित्युपपत्तेस्तदभावाद्यनवगाहित्वाञ्च व्यभिचारशानस्यानुमितिविरोधित्वाभावेऽपि न क्षतिरिति सक्षेपः । यादृशपक्षसाध्यहेतौ यावन्तो दोषास्तावदन्यान्यत्वं तत्र हेत्वाभासत्वम् । पञ्चत्वकथनं तु तत्सम्भवस्थलाभिप्रायेण ।
सत्प्रतिपक्षादेरनित्यदोषत्ववादिनां मतमाह परेत्विति-अस्य “ इत्याहु" रित्यग्रेण सम्बन्धः । सत्प्रतिपक्षस्यानित्यदोषत्ववादिनस्तु इत्यर्थः । एतेषां मते " हेतोराभासा हेत्वाभासा" इति षष्ठीसमासाश्रयणेन हेत्वाभासपदं व्यभिचारादिदोषपरम् । दोषवत्ता च सर्वत्रैव एकज्ञानविषयत्वसम्बन्धेन दर्शितरीत्या वर्तते । लक्षणन्तु-“ यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्व " मिति दोषाणामेवास्ति नतु दुष्टहेतूनाम् । तादृशदोषवत्त्वं हेत्वाभासत्वमिति दुष्टहेतुलक्षणम् । अर्थात्-व्यभिचारादिदोषवत्सु हेतुषु “साध्याभाववान् पक्षो हेतुश्च'' इत्याकारकैकज्ञानविषयत्वसम्बन्धेन हेत्वाभासपदव्यवहारः । सत्प्रतिपक्ष इति-सत्प्रतिपक्षादिस्थले तु विरोधिव्याप्त्यादिकमेव दोषरूपेण ग्रहीतव्यम् । तद्वत्वञ्चति-तादृशदोषवत्त्वञ्च "अयं विरुद्धव्याप्तिविशिष्टोहेतुः" इत्याकारकैकज्ञानविषयत्वसम्बन्धेन ज्ञातव्यम् । उभयत्रापि हेतौ "अयं विरुद्धव्याप्तिविशिष्टो हेतु " रित्याकारकैकज्ञानविषयत्वसम्बन्धः समान इति भावः ।
अत्र शङ्कते-"नच' इति । “एवम्" इति । दर्शितरीत्या एकज्ञानविषयत्वसम्बन्धेन दोषवत्तास्वीकारे सतीत्यर्थः । शङ्काग्रन्थस्यायमाशयः-स प्रतिपक्षस्यानित्यदोषतावादिमते बाधोऽप्यनित्यो दोषः स्यात्। कथमिति चेत् ? शृणु । यद्यपि-"वह्निमान् धूमात्" इत्यादिसद्धेतस्थले पर्वते पक्षे वस्तुतः साध्याभावो नास्तीति न बाधः, तथापि यदि तत्रैव कस्यचित् ‘पर्वतो वन्ह्यभाववान्' इत्यकारको बाधभ्रमो जातः तत्र भ्रमज्ञानमेव साध्याभावविषयकत्वेन "पर्वतो वह्निमान्" इत्याकारामनुमिति प्रतिरोत्स्यति । एवं “वन्यभाववान् पर्वतो धूमश्च" इत्याकारकभ्रमात्मकैकज्ञानविषयत्वसम्बन्धेन धूमात्मकः सद्धेतुरपि तादृशदोषवान् बाधित इत्युच्येत, तेन हेत्वाभासलक्षणस्य सद्धेतावेवातिव्याप्तिः । भ्रमज्ञाननाशे हेतौ बाधितव्यवहाराभाव इति चेद् ? तदा बाधोऽप्यनित्यो दोषः स्याद् ? इति।