________________
२६६ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे ... तत्रैव स्थले वादिनः “ वन्यभावव्याप्यपाषाणमयत्ववान् पर्वत" इति परामर्शज्ञानं
जायेत, तत्र द्वितीयपरामर्शेन प्रथमपरामर्शकुक्षिनिविष्टधूमहेतोः सत्प्रतिपक्षत्वेन हेत्वाभासता युक्ता । भवदीय " यादृशविशिष्टविषयकत्व " कथनेन सा न युज्येत अर्थात् विरोधिपरामर्शकाले धूमहेतुः सत्प्रतिपक्षितो न भवेत् , संसारमात्रे पर्वते वयभावव्याप्यविशिष्टस्याप्रसिद्धत्वात् । पाषाणमयत्वहेतोर्वन्यभावनिरूपिता ब्याप्यता ( म्याप्तिः) नास्ति, ततः तव पक्षे धूमो हेत्वाभासो नैव भवितुमुचितः । सिद्धान्ती इष्टापत्या परिहरति–इष्टापत्तेरिति । इष्टमेवामाकमिदं यद्विरोधिहेतुसत्त्वेऽपि धूमादिसद्धेतुषु कदापि न हेत्वाभासव्यवहार इति । अनिष्टापत्तौ बाधकमुपन्यस्यतिअन्यथेति । प्रतिबन्धकीभूतभ्रमविषयस्यापि दोषत्वेन स्वीकारे बाधोऽप्यनित्यदोषः स्यात्। वहिव्याप्यधूमस्याभासत्वस्वीकारे बाधोऽप्यनित्यो दोषः स्यात् कादाचित्कत्वा. दिति तु परमार्थः ।
पक्षे साध्याभावव्याप्यस्य भ्रमेण वस्तुतः सद्धेतुर्न दुष्यति । यदि दर्शितरीत्या सद्धेतावपि सत्प्रतिपक्षता स्वीक्रियते पत्र सद्धेतावपि विरोधिपरामर्शकाले दुष्टता स्वीक्रियते अर्थादेवं तस्य *अनित्यदोषत्वस्वीकारः तदा पक्षे साध्याभावस्य भ्रमेण सद्धे. तावऽपि बाधदोषेण दुष्टव्यवहारः कर्तव्यो भविष्यति परमिदं न कस्यापि सम्मतम् । तस्माद् एवंविधस्थले " वन्यभावव्याप्यपाषाणमयत्ववान् पर्वत" इत्याकारकपरामर्शकाले वह्निव्याप्यधूमहेतोराभासत्वं नास्ति किन्तु भ्रमादनुमितेः प्रतिरोधमात्रं, तदपगमे तु जायत एवानुमितिः । “धूमादिहेतुस्तु कालयत्रेऽपि न दुष्ट" इत्यभिसन्धिमान् " अन्यथा " इत्यारभ्य “ न दुष्ट" इत्यन्त प्रभाति । इत्थश्चेति-यादृशविशिष्टविषयकत्वेन ज्ञानस्य प्रतिबन्धकत्वं तादृशविशिष्टस्य दोषत्वमित्यङ्गीकरणेन वस्तुतः साध्याभाववति वृत्तिर्यस्य हेत्वादेस्तादृशं हेत्वादिकमेव दोषः । “अत्रादि " पदेन साध्याभावविशिष्टः पक्षोपि दोषत्वेन ज्ञातव्यः । तद्वत्ता चेति-तादृशदोषवत्ता चेत्यर्थः । येन केनापि सम्बन्धेन अर्थात् सा दोषवत्ता व्यभिचारादिस्थले तादात्म्यसम्बन्धेन, बाधादिस्थले " साध्याभाववान् पक्षो हेतुश्च " अर्थात् – “हिदोवन्यभाववान् धूमश्च” इत्याकारकैकज्ञानविषयत्वेन सम्बन्धेन यथासम्भवं ज्ञेया ।
इदश नग्यनैयायिकानां मतमित्याह-नव्या इति । असिन् सिद्धान्ते " हेतुवदा| भासन्त इति हेत्वाभासा " इतिव्युत्पत्तिबलेन हेत्वाभासपदं दुष्टहेतुपरमिति बोध्यम् ।
(मु०) परे तु यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्वं तद्वत्त्वं
• तादृशशानकाले दुष्टत्वं तादृशज्ञानाभावकालेऽदुष्टत्वमित्येवाऽनित्यदोषत्वम् । बाधस्य तु नित्यदोषत्वं सर्वसम्मतमिति भावः ।
+" ह्रदो वन्ह्यभाववान् धूमश्च" इत्याकारकसमूहालम्बनविषयतामादाय बाधितादी लक्षणसमन्वयादित्याहुः ।