________________
हेत्वाभाससामान्यलक्षणम् ।
वच्छिन्नमनुमितिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकत्वं तत्त्वं हेत्वाभाससामान्यलक्षणम्" इति ज्ञेयम् । “ हृदो वन्ह्यभाववान् " इत्याकारकज्ञानस्य वन्यभाववद्धदादिविषयकत्वेन 'हृदो वह्निमान् " इत्यनुमितिनिष्ठा या प्रतिबध्यता तन्निरूपितप्रतिबन्धकत्वं तादृशज्ञानस्याक्षतमेवेति लक्षणसमन्वयः । एतदेव मूले स्वयं स्पष्टीकरोति-तथाहीति । व्यभिचारादिविषयकत्वेन="अयं हेतुर्व्यभिचारी" इत्याकारकं ज्ञानं व्यभिचारिहेतुकां सर्वामनुमिति प्रतिबध्नाति, अत एवंविधस्य ज्ञानस्य अनुमितिविरोधित्वात् तेव्यभिचारादयो दोषाः अनुमितिप्रतिबन्धकतया " हेत्वाभासा " इत्युच्यन्ते । लक्षणघटकस्य यद्विषयकपदस्य यादृशविशिष्टविषयकत्वमित्यर्थो बोध्य इत्याह-यद्विषयकत्वश्चेति । विवक्षाफलं दर्शयति-तेनेत्यादिना । बाधभ्रमस्यानुमितिविरोधित्वेऽपीति । अयमाशयः-यदि “ यद्विषयकत्व' पदस्य यादृशविशिष्टविषयकत्वरूपोऽर्थों न गृह्येत तदा यत्र पर्वते यस्य कस्यापि पुरुषस्य " पर्वतो वन्ह्यभाववान् ” इत्याकारको बाधभ्रमो जातः तत्रापि बाधविषयकत्वेन धूमात्मकसद्धेतोः “पर्वतो वह्निमान्" इत्याकारानुमितिर्न स्यात् । अर्थात् उक्नां धूमात्मकसद्धेतुकामनुमितिम्प्रति बाधस्य प्रतिबन्धकता स्यात् ( बाधभ्रमोऽपि बाधरूप एव) तेन हेत्वाभासलक्षणस्य सद्धतावेवातिव्यातिरापतेत् । यदा तु “ यादृशविशिष्टविषयकत्व" मित्यर्थों गृह्यत तदा प्रकृते-" यादृशविशिष्ट " पदेन वन्यभावविशिष्टपर्वतस्यैव ग्रहणं भविष्यति, तादृशपर्वतस्तु सर्वत्र संसारेऽप्रसिद्ध इति नातिव्याप्तिः। " धयंशे सर्व ज्ञानं प्रमा प्रकारांशे तु भ्रम'' इत्यभ्युपगमादिति भावः ।
इदमुक्तं भवति–यत्र पक्षे वस्तुगत्यैव साध्याभावः तत्रैव बाधो भवितुमर्हति । यदि वस्तुतः पने साध्याभावो न स्यात् किन्तु पक्षे साध्याभावभ्रमो जातः तदा प्रकृतानुमाने हेतुर्न दुष्टो भवति । किन्तु भ्रमापगमेऽनुमितिर्जायत एव । न क्षतिःनातिव्याप्तिः।
उक्नेऽर्थे हेतुमाह-तत्रेति । “ पर्वतो वह्निमान् धूमाद्" इत्यत्र सद्धेतुकस्थापनायाम् । एतादृशस्थले ( भ्रमकाले ) पर्वतविशेष्यकवन्यभावप्रकारकनिश्चयनिष्ठप्रतिबन्धकरवेऽपि विशिष्टस्याप्रसिद्धत्वादित्यर्थः । न हेतुदोष इति । एवञ्च सद्धेतस्थले दोषस्याऽप्रसिद्धत्वादेव न हेतोर्दुष्टत्वापत्तिरिति फलितार्थः ।
तथाच-पर्वतविशेष्यकवन्यभावप्रकारकनिश्चयस्य प्रकृतानुमितिप्रतिबन्धकत्वेऽपि तादृशप्रतिबन्धकताऽनतिरिक्रयद्पावच्छिन्नविषयकत्वं तद्रूपस्याप्रसिद्धत्वेन सद्धेतुस्थले नैव दोषत्वापत्तिरित्येवमाह-" हेतुश्च न दुष्ट" इति भावः ।
सत्प्रतिपक्षस्यानित्यदोषत्ववादी शङ्कते-नचेति । शङ्काग्रन्थस्यायमाशयःयदा यत्र स्थले सिद्धान्तिनः “ पर्वतो वह्निमान् धूमात्" इत्याकारानुमाने धूमहेतुना " वहिन्याप्यधूमवान् पर्वतः" इत्याकारकं परामर्शज्ञानं जातम्, तस्मिन्नेव काले