________________
२६४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
ख्यानान्तरम् । एवञ्च - हृदो वह्निमान्" इत्याद्यनुमितिं प्रति “ वन्मभाववान् हृद" इत्यादिबाधनिश्चयः प्रतिबन्धकः । तादृशप्रतिबन्धकताविषयत्वं द्रव्यत्वादिहेताविति तेषां हेत्वाभासत्वमित्याद्यनुपदं स्फुटीभविष्यति । (का० ) अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।
___ कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥७॥ (प्रभा० ) पञ्चधा विभागं दर्शयति-अनैकान्त इति कारिकया । स्पष्टम् ।
(मुक्ता० ) तल्लक्षणं तु यद्विषयकत्वेन ज्ञानस्याऽनुमितिविरोधित्वं तत्त्वम् । तथाहि-व्यभिचारादिविषयकत्वेन ज्ञानस्यानुमितिविरोधि. त्वात्ते दोषाः । यद्विषयकत्वं च यादृशविशिष्टविषयकत्वं बोध्यम् । तेन बाधभ्रमस्यानुमितिविरोधित्वेऽपि न क्षतिः। तत्र पर्वतो वह्नयभाववानिति विशिष्टस्याप्रसिद्धत्वान हेतुदोषः । नच वह्नयभावव्याप्यपाषाणमयत्ववान् पर्वत इति परामर्शकाले वह्निव्याप्यधूमस्याभासत्वं न स्यात्, तत्र वह्नयभावव्याप्यवान्पक्ष इति विशिष्टस्याऽप्रसिद्धत्वादिति वाच्यम्, इष्टापत्तेः । अन्यथा बाधस्यानित्यदोषत्वापत्तेः। तस्मात्तत्र “वह्नयभावव्याप्यपाषाणमयत्ववान् पर्वत" इति परामर्शकाले वह्निव्याप्यधूमस्य नाभासत्वम्, भ्रमादनुमितिप्रतिबन्धमात्र, हेतुस्तु न दुष्टः। इत्थं च साध्याभावववृत्तिहेत्वादिकं दोषः तद्वत्त्वं च हेतौ येन केनापि सम्बन्धेनेति नव्याः।
__ (प्रभा०) ननु-लक्षणात्मकसाधारणधर्मज्ञानं विना विशेषे (लच्यभेदे ) जिज्ञासा नोदेतीति तत्कथं विभागो वक्तव्यः स्यादित्यत आह-तल्लक्षणन्त्विति । हेत्वाभाससामान्यलक्षणमित्यर्थः । मणिकारोक्तहेतुदोषसामान्यलक्षणमिति यावत् ।
यद्विषयकत्वेनेति-यद्विषयकत्वेन व्यभिचारादिविषयकत्वेन ज्ञानस्य="पर्वतो पहिमान् प्रमेयत्वात्" इत्यादौ " अयं प्रमेयत्वहेतुर्व्यभिचारी " इत्याद्याकारकज्ञानस्य " पर्वतो वह्निमान् " इत्यनुमितिम्प्रति विरोधित्वं प्रतिबन्धकत्वं तत्त्वं तदेव हेत्वाभासत्वम् । अर्थाद् थेषु प्रमेयत्वादिहेतुषु व्यभिचारादिदोषाणां (वयमाणलक्षणानां) निश्चयो जायते तदा " पर्वतो वह्निमान् ” इत्याद्यनुमितिज्ञानानि नोत्पत्तुमर्हन्ति तादृशानुमितिज्ञानप्रतिबन्धकत्वमेव प्रकृते हेत्वाभासत्वम् । एवं ' हृदो वह्निमान् धूमात्' इत्यादिबाधितस्थले वन्ह्यभावप्रयुक्रहदादिविषयकत्वेन ' हृदो वन्यभाववान् ” इत्या. कारकज्ञानस " हृदो वह्निमान् ” इत्याकारकानुमितिज्ञानम्प्रति या प्रतिबन्धकता सैव प्रकृतानुमाने बाधित्वरूपं हेत्वाभासत्वमिति सरलं व्याकृतम् । प्राचीनपरिपाट्या तु यद्विषयकत्वेनेत्यत्र तृतीयार्थोऽवच्छिन्नत्वम् , तस्य अनुमितिविरोधित्वेऽन्वयः। ज्ञानस्येति षष्ठ्यर्थों वर्तमानत्वम् , तस्य च यद्विषयकत्वेऽन्वयः । अनुमितिविरोधित्वं नाम अनुमितिनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकत्वम् । तथाच-" ज्ञाननिष्ठयद्विषयकस्वा