________________
हेत्वाभासाः।
२६३
बलवत्तरा सत्यनुमितिप्रतिबन्धिकेति सङ्क्षपः । शिष्टानि पदानि एवं व्याख्येयानिपरामर्शानन्तरम् दर्शिताकारपरामर्शज्ञानस्योत्तरक्षणे “ प्रत्यक्षेच्छां विनाऽपि प्रत्यक्षानुपपत्तेः " " पक्षादिविषयकं प्रत्यक्ष ज्ञानं मे भवतु" इतीच्छां विनापि भिन्नविषयकप्रत्यक्ष अनुमितिभिन्नविषयकप्रत्यक्ष प्रतिबन्धिका अनुमितिसामग्रीति शेषः ।
* “प्रसिद्धिपूर्वकत्वादपदेशस्य" ( कणा० ३ । १ । १४ ) इत्याद्यार्षसूत्राणि उक्नाकारायाः सपरिकराया व्याप्तेर्मूलं वेद्यम् । ग्रन्थगौरवभयावहु नप्रतानितम्।
(मुक्ता०) । हेतुप्रसङ्गाद्धत्वाभासान्विभजते
(प्रभा० ) हेतुप्रसङ्गादिति-प्रसङ्गसङ्गत्या हेत्वाभासान्विभजत इत्यर्थः । स्मृतस्योपेक्षानर्हत्वं प्रसङ्गसङ्गतिः। यद्वा-विजयलक्षणैककार्यकारित्वसङ्गत्या हेत्वाभासनिरूपणं बोध्यम् । वादिनो विजयस्वरूपं यदेकं कार्य तत्कारित्वं नाम तत्प्रयोज. कत्वम् । स्वोकहेतोः सद्धेतृत्वप्रतिपादनम् , परोक्तप्रतिहेतोर्दुष्टत्वप्रतिपादनम् । प्राभ्यां द्वाभ्यां कथायां वादिनो विजयो भवतीति भावः । हेतुवदाभासन्ते इति “हेत्वाभासाः" असद्धेतवः दुष्टहेतव इति यावत् । इदमुक्नं भवति-यो हि वस्तुतोहेतुर्न भवति केवलं पञ्चम्यादिसामान्याद्वेतुवदाभासते, किम्बहुना यद्गोचरयज्ज्ञानं साक्षात्परम्परया वाऽनुमितिं प्रतिबध्नाति स एव हेतुवदाभासमानत्वाद्धेत्वाभासः । हेतुदोषैरनुपदं वक्ष्यमाणैः व्यभिचारादिभिर्दुष्टत्वादसद्धेतुरित्युच्यते इत्यर्थः । उनञ्च कणादमुनिना-"अप्रसिद्धोऽनपदेशः" (वै०३ । १ । १५) इति हेतुरपदेश इति हेत्वाभासोऽनपदेश इति चानर्थान्तरम् । हेतोराभासा हेत्वाभासाः हेतुनिष्ठा दोषाः तेषां भावस्तत्त्वमिति व्या___ * प्रसिद्धिः स्मयमाणा व्याप्तिः, अपदेशो-हेतुवचनं तेन स्मयमाणव्याप्तिविशिष्टो हेतुहेत्ववयवत्वेन उपनयावयवत्वेन वोच्यते प्रसिद्धिपूर्वकोऽपदेश इति । विशिष्टं व्याप्तिग्रहोपाये वक्ष्यामः।
विभागपदार्थलापनप्रकारः प्रत्यक्षखण्डे दर्शितोऽपि प्रकृत पुनः शिष्यबुद्धिवैशद्यार्थ प्रदर्श्यते-स्वसमभिव्याहृतपदार्थतावच्छेदकधर्मव्याप्येत्यादि विपूर्वकभजधातोरर्थ एवं घट यः । तथाहि--" व " पदेन विपूर्वकभजधातोरर्थग्रहणम् । तत्समभिव्याहृतपदं प्रकृते हेत्वाभासपदं तदर्थतावच्छेदको धर्मों हेत्वाभासत्वम् , तद्व्याप्या मिथो विरुद्धा यावन्तो धर्मा अनैकान्तिकत्वादयः तत्प्रकारकं ज्ञानम् ' अनैकान्तः विरुद्धः” इत्यादिरूपम्, तदनुकूलो व्यापारः पद्यात्मकवाक्यप्रयोगरूपः ( ग्रन्थकत्तुरेव ) तादृशव्यापाराऽनुकूलकृतिमान् ग्रन्थकार इत्यर्थः ।
हेतुप्रसङ्गादिति-पत्र हेतुनिरूपितप्रसङ्गसङ्गतेः प्रयोज्यत्वं पञ्चम्यर्थ: विभागान्वयिकर्मत्वं द्वितीयार्थः । तथाच-" हेतुनिरूपितप्रसङ्गसङ्गतिप्रयोज्यहेत्वाभासकर्मकविभागानु. कूलकृतिमान् ग्रन्थकार " इति वाक्यार्थबोधः ।
अप्रसिद्ध इति–व्याप्त्या पक्षधर्मतया चाऽप्रमितोऽप्रसिद्धः । तथाच-यत्र व्याप्ति: पक्षधर्मत्वं वा नास्ति स " असिद्ध " इति यावत् । अधिकमुपस्कारादौ ।