________________
२६२ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे ___(मुक्ता० ) इदं तु बोध्यम् । यत्रायं पुरुषो न वेति संशयानन्तरं पुरुषत्वव्याप्यकरादिमानयमिति ज्ञानं तत्राऽसत्यामनुमित्सायां पुरुषस्य प्रत्यक्षं भवति नत्वनुमितिरतोऽनुमित्साविरहविशिष्टसमानविषयक प्रत्यक्षसामग्री कामिनीजिज्ञासादिवत्स्वातन्त्र्येण प्रतिबन्धिका । एवं परामर्शानन्तरं विनापि प्रत्यक्षेच्छां पक्षादेः प्रत्यक्षानुत्पत्तेः प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्री भिन्नविषयकप्रत्यक्षे प्रतिबन्धिका ॥ ७० ॥
( प्रभा० ) सिद्धयनुमित्योः प्रतिबध्यप्रतिबन्धकभावे उपाध्यायमतस्य 8 खण्डनाभिप्रायेण ग्रन्थान्तरमवतारयति-इदन्तु बोध्यमिति । यत्र-तिमिरादिदोषवशात् प्रमातरि पुरुषे अर्थात् प्रमातुरेव "अयं पुरुषो नवा" इत्याकारकः संशयः समजनि, तत उत्तरं द्वितीयक्षणे सम्यक्चतुःसम्प्रयोगेन "पुरुषत्वव्याप्यकरचरणादिमानयम्" इत्याकारकः परामर्शो जातः तत्र संशयात्मकपक्षताविशिष्टा अनुमितिसामग्री वर्त्तते परं तत्सहकारिणी अनुमित्सा नास्ति , तदा पुरुषविषयकं प्रत्यक्षात्मकमेव ज्ञानं भवति नानुमित्यात्मकम् । अतोऽनुमित्साविरहविशिष्टा समानविषयकप्रत्यक्षसामग्री अनुमित्साभावविशिष्टा तुल्यविषयिणी या प्रत्यक्षज्ञानस्य सामग्री चतु:सम्प्रयोगादिरूपा सा कामिनीजिज्ञासादिवत्-विरहिणः पुरुषस्य सुन्दरस्त्रीभोगेच्छादिवत् स्वातन्त्र्येण स्वभावत एव (पक्षताकुक्ष्यप्रविष्टत्वेनैव) प्रतिबन्धिका-अनुमितिज्ञानविरोधिनी भवतीतिशेषः । अनुमित्साभावविशिष्टानुमितिसामग्री प्रति समान विषयिका-तुल्यविषयिणी ( यद्विषयिकाऽनुमितिसामग्री तद्विषयिणी ) प्रत्यक्षसामग्री (चतुःसम्प्रयोगादिरूपा ) कामिनीजिज्ञासादिवत् सुन्दरस्त्रीजिज्ञासावत् , स्वातन्त्र्येण= पक्षताकुक्षौ प्रवेशं विनैव प्रतिबन्धिका भवतीत्यर्थः । यथा कामिनः पुरुषस्य सुन्दरीसङ्गमनेच्छा सकलकार्यप्रतिबन्धिका भवति तथैवानुमित्साभावविशिष्टा प्रत्यक्षसामग्री समानविषयकानुमितिं प्रति स्वभावेनैव प्रतिबन्धिका ज्ञेयेति भावः ।
प्रत्यक्षस्यानुमितिबाधकत्वं प्रदर्श्य अनुमितेरपि क्वचित्प्रत्यक्षबाधकत्वं भवतीति दर्शयति-एवमिति । “ वह्निव्याप्यधूमवानयं पर्वत " इत्यादिपरामर्शानन्तरं यदि • पक्षादिविषयकं प्रत्यक्षं ज्ञानं मम जायताम्" इत्याकारिकेच्छा उत्तेजनाकारिणी न स्यात् तदा पक्षादिविषयकं प्रत्यक्ष ज्ञानं न भवति । किन्तु-" पर्वतो वह्निमान् " इत्याकारा समुदितरूपा=पक्षसाध्यविषयिणी अनुमितिरेव जायते । अतोऽयं निष्कर्षो ज्ञेयो यदनुमितिविषयाद् भिन्नविषयके प्रत्यक्षे प्रत्यक्षेच्छाभावविशिष्टाऽनुमितिसामग्रयेव प्रतिबन्धिका । । समानविषयके प्रत्यक्षे तु अनुमित्साभावविशिष्टा प्रत्यक्षसामग्रयेव
* उपाध्यायास्तु-सिषाधयिषाविरहविशिष्टसिद्धिप्रत्यक्षसामग्रयोरन्यतरस्याभावः पक्षता तेन सिद्धिकाले समानविषयकप्रत्यक्षसामग्रीकाले च नानुमित्यापत्तिरित्याहुरिति दिनकरी।
+ अनुमितितुल्यविषयक इत्यर्थः ।