________________
पक्षतायां सिद्ध्यनुमित्योः प्रतिबध्यप्रतिबन्धकभावः ।
न्त्विति । पचतावच्छेदकसामानाधिकरण्येन= एकस्मिन् पर्वते वह्निरूपसाध्यस्य सिद्धावपि तदवच्छेदेन अर्थात् पचतावच्छेदकावच्छेदेनेनानुमितिम्प्रति पक्षतावच्छेदकावच्छेदेन= यावत्पर्वतवृत्तित्वेनेत्यर्थः साध्यसिद्धिरेव = वन्द्यादिसाध्यविषयकं प्रत्यक्षज्ञानमेव । प्रतिबन्धिका अनुमितिविरोधिनी, पचतावच्छेदकसामानाधिकरण्येन तु सिद्धिमात्र विरोधि |
२६१
अस्य प्रघट्टकस्यायमाशयः - हेतौ साध्यव्याप्तिद्वारा जायमानो निश्वयः साध्यनिश्चयः सिद्धिर्वेत्युच्यते, सचानुमितिप्रतिबन्धकः । परन्तु - " यन्त्र देशे साध्यस्यानुमानं क्रियते तद्देशीयः ततोऽधिकदेशीयो वा साध्यस्य निश्चयोऽनुमितिं प्रतिबध्नाति नतु कदाचिदपि न्यूनदेशीय" इत्यस्ति नियमः । तथाहि - यदि कस्मिंश्चित्पर्वते वहेरनुमानं जातं तदा तत्पर्वतवृत्तिर्वह्निनिश्चयः अथवा पर्वतमात्रवृत्तिर्वह्निनिश्चयोऽनुमितिप्रतिबन्धकः । यदा तु सकलपर्वते वहिरनुमातव्यः तदा सकलपर्वतवृत्तिर्वह्निनिश्चयः पर्वतमात्रवृत्तिवन्ह्यनुमितिप्रतिबन्धकः । परन्तु सकलेषु पर्वतेषु वह्नेरनुमानकाले यत्किञ्चित्पर्वतनिष्ठवह्निनिश्चयो नानुमितिं प्रतिरोध्टुं समर्थो: न्यूनदेशवृत्तित्वात् । पर्वतमात्रं वन्ह्यनुमित्यपेक्षयाऽयं न्यूनो वत्र्त्तते यत इत्यर्थः । एतावदमागतं यत् पचैकदेशे * वर्त्तमानः साध्यनिश्चयः पत्तमात्रविषयिणीमनुमिति न प्रतिरोत्स्यति तेन पत्तैकदेशोप्यनुमितिसमये दृष्टान्तीकर्तुं शक्यते । श्रर्थात् -" पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् घटवत् " इत्याकारा स्थापना न दुष्यति । किन्तु " यत्र यत्र गन्धवत्त्वं तत्र तत्रेतरभेद " इत्याकारा श्रन्वयव्याप्तिरपि भवतीति काणादं मतमुक्रं भवति ।
पदानित्वेवं व्याख्यातव्यानि - पक्षतावच्छेदकसामानाधिकरण्येन=पंचकव्यक्तिगतत्वेन अथवा पर्वतीयान्यतमशिखरगतत्वेन । साध्यसिद्धावपि = वन्द्यादिसाध्यस्य निश्चयेऽपि । तदवच्छेदेन = पक्षतावच्छेदकावच्छेदेन पचतात्वावच्छेदेनेति यावत्, अनुमितिदर्शनात् = " पर्वतो वह्निमान्" इत्याद्याकारानुमितिरूपायाः प्रमायाः सत्वात् ( नहि पत्तैकदेशनिष्ठं निश्चयात्मकं ज्ञानं यावत्सु पत्तेषून्नीयमानाया अनुमितेः प्रतिबन्धकमिति भावः तस्मात् ) पक्षतावच्छेदकावच्छेदेन = यावत्पचतावच्छेदेन अनुमितिम्प्रति, पक्षतावच्छेदकावच्छेदेन = यावत्पक्षगतत्वेन रूपेण, साध्यसिद्धिरेव प्रतिबन्धिका । पक्षतावच्छेदकसामानाधिकरण्येन - पंतकव्यक्तिगतत्वेन श्रनुमितिस्प्रति तु सिद्धिमात्रम् = तदेकपक्षव्यक्तिगतो वन्ह्यादिसाध्यीयनिश्चयः ततोधिकयावत्पक्षगतसाध्यीयनिश्चयो वा विरोधि = प्रतिबन्धकमित्यर्थः ।
* 'शिखरावच्छेदेन पर्वतो वह्निमान् ' इत्यनुमितौ तु पचतावच्छेदकीभूतशिखराव - च्छिन्नत्वं स्वरूसम्बन्धरूपमेव भासते नतु व्यापकत्वलक्षणमननुभवात् । एवञ्च तत्र शिखरावच्छेद्यवह्निसंयोगेनैव वह्निनिश्चयो विरोधी नतु संयोगमात्रेणत्यवधेयमिति पक्षता सिद्धान्ते जगदीशभट्टाचार्याः ।