________________
२६०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
(प्रभा० ) उक्नविवक्षायाः फलं दर्शयति-एवञ्चेति । एवञ्च प्रसिद्धानुमाने " वह्निव्याप्यधूमवान् पर्वतो वह्निमान्" इत्याकारकपरामर्शद्वितीयक्षणे 'आलोकेन हेतुना ममानुमितियताम्" इत्याकारेच्छायामपि नानुमित्यापत्तिः । तत्र “यद्धेतुक" पदनिवेशस्यापि सत्त्वात् । इयमुनेच्छा यद्धेतुकः परामर्शो जातस्तद्धेतुका न वर्तते किन्तु धूमहेतुकः परामर्शः, तदुत्तरं जायमानेच्छा त्वालोकहेतुकेति विषमस्वरूपत्वादनु मितिप्रतिबन्धकैवेति तादृश्या इच्छाया यल्लिङ्गकपरामर्शत्वं तल्लिङ्गकत्वं नेत्यत: प्रकृतपरामर्श उत्तेजकत्वमपि नास्त्येवेति गूढं हृदयम् ।
(मु०) सिषाधयिषाविरहकाले यादृशसिद्धिसत्त्वे नानुमितिस्तादृशी सिद्धिर्विशिष्यैव तत्तदनुमितौ प्रतिबन्धिका वक्तव्या । तेन पर्वतस्तेजस्वी पाषाणमयो वह्निमानिति ज्ञानसत्त्वेऽप्यनुमितनं विरोधः। - (प्रभा०) सिद्धयनुमित्योः कीदृशः प्रतिबध्यप्रतिबन्धकभाव इति निरूपयतिसिषाधयिषेति । सिषाधयिषाविरहकाले अनुमित्साया प्रभावकाले यादृशसिद्धिसत्त्वे यद्रूपावच्छिन्ननिश्चयात्मकज्ञानसद्भावे, नानुमिति:-अनुमितिर्न भवती. त्यर्थः । तादृशी सिद्धिः तद्रूपावच्छिन्नं प्रत्यक्षादिनिश्चयात्मकं ज्ञानं विशिष्यैवपृथक् पृथगेव, तत्तदनुमितौ-तत्तत्साध्यकानुमितिव्यक्तौ प्रतिबन्धिका वक्रव्येति पदार्थयोजना । प्राशयस्तु-" पर्वतो वह्निमान् " इत्याकारानुमितौ पर्वतत्वावच्छिन्नविशेष्यतानिरूपितबह्नित्वावच्छिन्नप्रकारताशालिनिश्चयत्वेन रूपेण सिद्धिज्ञानमनुमितिप्रतिबन्धकं नत्वन्यप्रकारताकमन्यविशेष्यताकं वा । एतादृशप्रतिबध्यप्रतिबन्धकभावस्य फलमाह-तेनेति । “ पर्वतो वाह्नमान् ” इत्याकारानुमितेः पूर्व जायमानमपि " पर्वतस्तेजस्वी" अथवा-" पाषाणमयो वह्निमान् " इत्याकारकज्ञानसम्वेऽपि अनुमितेन विरोधः दर्शिताकारकं सिद्धिज्ञानं उनाकारानुमिति प्रतिरोध्दं न समर्थमित्यर्थः। तद्विशेष्यकतत्प्रकारानुमितिं प्रति तद्विशेष्यकतत्प्रकारकं सिद्धिज्ञानं प्रतिबन्धकम्" इति नियमस्य जागरूकत्वादिति भावः। "पर्वतस्तेजस्वी" इति ज्ञानं पर्वतविशेष्यकमपि पर्वतत्वावच्छिन्नविशेष्यतानिरूपितमपि न वह्नित्वावच्छिन्नप्रकारताकम् । " पाषाणमयो वह्निमान्" इति ज्ञानं वह्नित्वावच्छिन्नप्रकारताकमपि न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितं, किन्तु पाषाणमयत्वावच्छिन्नविशेष्यतानिरूपितमिति बोध्यम् ।
(मुक्ता.) परन्तु पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धावपि तदवच्छेदेनानुमितिदर्शनात्पक्षतावच्छेदकावच्छेदेनानुमिति प्रति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धिरेव प्रतिबन्धिका, पक्षतावच्छेदकसामानाकरण्येनानुमितिं प्रति तु सिद्धिमात्रं विरोधि ।
(प्रभा०) सिद्धयनुमित्योः प्रतिबध्यप्रतिबन्धकभावेऽन्यदप्यावश्यकमाह-पर