________________
पक्षतायां सिपाधयिषास्वरूपं कीदृशं विवक्षितम् ।
भवतीति सर्व चतुरस्रम् ।
(मु०) अत्रेदं बोध्यम् । यादृशयादृशसिषाधयिषासत्त्वे सिद्धिसत्त्वे यल्लिङ्गकाऽनुमितिस्तादृशतादृशसिषाधयिषाविरहविशिष्टसिद्धयभावस्तल्लिङ्गकाऽनुमितौ पक्षता । तेन सिद्धिपरामर्शसत्त्वेऽपि यत्किंचिज्ज्ञानं मे जायतामितीच्छायामपि नानुमितिः । वह्निव्याप्यधूमवान् पर्वतो वह्निमानिति प्रत्यक्षसत्त्वे प्रत्यक्षातिरिक्तं वह्निज्ञानं जायतामितीच्छायां तु भवत्येव॥ . (प्र० टी ) "सिषाधयिषे" त्यादिविशेषणस्य स्वरूपं कीदृशमिति निर्धारयतिअत्रेदमिति । पादृशयादृशेति-अयमाशयः- “वह्निव्याप्यधूमवान् पर्वतो वह्निमान्" इत्याकारकसिद्धयात्मकपरामर्श सति यदि “यत्किञ्चिज्ज्ञानं मे जायताम्' इतीच्छा प्रवर्त्तते तदा न वन्द्यनुमितिः। यदि तु उनाकारकप्रत्यक्षात्मकपरामर्शकाले अर्थात् परामर्शद्वितीयक्षणे "प्रत्यक्षादिभिन्नं मे वह्निज्ञानं जायताम्" इत्याकारेच्छा भवेत् तदा तु भवत्येव वढेरनुमितिः । यत उक्नेच्छा प्रत्यक्षायतिरिक्ने वन्यनुमितिज्ञाने उत्तेजकस्वरूपेण वर्त्तते । वन्द्यनुमितौ तु-"पर्वते मे वह्निज्ञानं जायताम्" इत्याकाराया एवेच्छाया: सिद्धिसत्त्वेऽपि उत्तेजकता नतु यत्किञ्चिज्ज्ञानविषयकत्वेन तस्या उत्तेजकत्वमिति युक्तमुक्तं "यादृशयाशसिद्धसत्व" इत्यादि । अक्षराणि त्वेवं योज्यानि-यादृशयादृसिषाधयिषासस्वे=" पर्वते वह्निमनुमिनुयाम्" इत्याकारकसिषाधयिषासत्वे यलिङ्गकानुमितिः धूमलिङ्गकाऽनुमिति: भवतीति शेषः । तादृशतादृशसिषाधयिषाविरहविशिष्टसिद्धयभावः तत्तद्रूपावच्छिन्नानुमित्साभावविशिष्टप्रत्यक्षनिश्चयात्मकाभावः तल्लिङ्गकानुमितौ-तद्धेतुकानुमितौ अर्थात् ( यथा ) प्रसिद्धानुमाने धूमहेतुकाऽनुमितौ पक्षता पक्षवृत्तित्वम् । विशेष्यतासम्बन्धेन तद्वान् पक्ष इति भावः । तेन-तत्तब्यक्रित्वेन इच्छाया उत्तेजकत्वेन सिद्धिपरामर्शसम्बेऽपि =" वह्निव्याप्यधूमवान् पर्वतो वह्निमान्" इत्याकारकसिद्धयात्मकपरामर्शसत्त्वेऽपि " यत्किञ्चित् ज्ञानं मे जायताम् "पर्वतविशेष्यकघटप्रकारकं पर्वतविशेष्यकपटप्रकारकं वा मे ज्ञानं भवतु” इतीच्छायां-वर्तमानाथामपि नानुमितिः नैव वन्यनुमितिरिति खण्डलकार्थः। तादृश्या इच्छाया यत्किञ्चिज्ज्ञानविषयकत्वेन प्रकृताऽनु. मितिसामग्र्यामुत्तेजकत्वाभावादिति भावः । वह्निव्याप्यधूमवानिति-इत्याकारकप्रत्यक्षात्मकनिश्चयसत्त्वेऽपि " प्रत्यक्षातिरिक्तं वह्निज्ञानं मे जायताम्" इतीच्छायां तु भवत्येव अनुमितिरिति सम्बन्धः । तादृश्या इच्छायाः प्रत्यक्षातिरिक्रवन्ह्यनुमितिज्ञाने उत्तेजकत्वेन सत्वादिति भावः ।
__(मु०) एवं धूमपरामर्शसत्वे आलोकेन वह्रिमनुमिनुयामितीच्छायामपि नानुमितिः।
* तल्लिङ्गकत्वादिविनिवेशेनेत्यर्थः ।