________________
२५८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
पक्षतालक्षणे सिद्धान्तिना यत् 'सिषाधयिषे'त्यादि विशेषणं धृतं सदेक. कालावच्छेदेनैकात्मवृत्तित्वसम्बन्धेनैव विवक्षितम्, अर्थात् अनुमातुः सिषायिषादिकं युगपत्कालावच्छेदेन भवेत् तदा तस्यानुमितिः स्यात् तदेव तु नार्हति भवितुम् । नह्यात्मनो विशेषगुणा इच्छाज्ञानाद्या युगपद्भवन्ति, किन्तु भवन्ति ते क्रमेणेति नैयायिकानां मतम् । यत्र प्रथमक्षणे “वहिव्याप्यधूमवानयं पर्वत" इति परामर्शः, तादृशपरामर्शानन्तरं-परामर्शस्य द्वितीयस्मिन् क्षणे सिद्धिः प्रत्यक्षनिश्चयः ततः= सिद्ध्युत्पत्तिद्वितीयक्षणे सिषाधयिषा-अनुमित्सा उत्पन्नेति शेषः । तत्र-तादृशस्थले सिषाधयिषाकाले परामर्शनाशात् अनुमितिकरणभूतस्य व्याप्तिज्ञानस्य व्यापारभूतो यः परामर्श:, यं विनानुमितिरेव नोत्पत्तुमर्हति तस्य नष्टत्वात् नानुमितिः स्यात् ।
एवं यत्र प्रथमक्षणे सिद्धिः, तद्वितीयक्षणे परामर्शः, ततः तृतीयक्षणे सिषाधयिषा जाता=एवंक्रमेणैतत्सर्वमव्यवधानेन भवतीत्यर्थः । तत्र सिषाधयिषाकाले सिद्धर्नाशात् , प्रतिबन्धकाभावात्-सिपाधयिषाभावविशिष्टसिद्धिरूपस्य प्रतिबन्ध कस्याभावाद् अनुमितिः स्यादेव। एवमेव यत्रेत्यादिग्रन्थस्याप्यर्थो योजनीयः । अर्थात् प्रथमक्षणे सिपाधयिषोत्पन्ना, द्वितीयक्षणे सिद्धिः, तृतीयक्षणे परामर्श इति । अत्रापि परामर्शकाले सिषाधयिषैव नास्ति । तत्र परामर्शसत्त्वात्प्रतिबन्धकाभावात् स्यादेवाऽनुमितिरिति शेषः। यत्र तु-प्रथमे क्षणे सिषाधयिषा, द्वितीये परामर्शः, तृतीये सिद्धिज्ञानं तत्र सिद्धिकाले सिषाधयिषैव नास्तीति नैवानुमितिः । तस्मात्सिद्धान्त्युक्तरीत्या सिद्धिकाले परामर्शकाले वा सिषाधयिषैव न वर्त्तत इति व्यर्थमुक्त विशेषणम् । किन्तु-"सिद्धयभावः पक्षता" इत्येव • युक्रमित्याक्षेप्तुराशयः । तत्र पूर्वपक्षिणो युक्ति:-"योग्यविभुविशेषगुणानामिति" । प्रत्यक्षयोग्या ये विभूनां विशेषगुणाः= ज्ञानाद्याः तेषां योगपद्यस्य एककालावच्छेदेनोत्पत्तेनिषेधो यत इति भावः।।
समाधानग्रन्थस्यायं भावः-यत्रात्मनि यस्मिन्ननुमानकर्तरि पुरुषे “वह्निव्याप्यधूमवान् पर्वतो वह्निमान्" इत्याकारकं प्रत्यक्षं स्मरणं वा जातं ततः तदुत्तर द्वितीयक्षणे “पर्वते वन्नुमितिर्मे जायताम्" इत्याकारिका सिषाधयिषा जाता, ता. शस्थले अनुमित्यव्यवहितपूर्ववार्तसिषाधयिषाक्षणे पत्ततालक्षणघटनाय 'सिषाधयिषा. विरहविशिष्टत्वं सिद्धौ विशेषणं देयमेव । तथाच-परामर्शघटितसिद्धिः प्रथमक्षणे, सिषाधयिषा द्वितीयक्षणे, तृतीयक्षणे त्वनुमितिरेवेष्टा द्वितीयक्षणे सिद्धरनाशात् तत्र पक्षतासम्पत्तये तद्विशेषणमावश्यकम् । अन्यथा तत्रानुमितिर्न भवेत् उक्नाकारायाः सिद्धेः सत्त्वात् । परमेतादृशस्थलेऽप्यनुमितिस्तु निर्विवादा । नात्र सिद्धयभावः केवलोऽस्ति येनानुमितिरुद्भवेत् किन्तु सिद्ध्यत्मकः परामर्शो विद्यते एव । द्वितीयक्षणवृत्तिसिषाधयिषात्मकोत्तेजकसत्वे तदेव ज्ञानं परामर्शत्वेनानुमितिकारणम् , सिषाधयिपाया अभावे तु तदेव सिद्धयात्मकतया प्रतिबन्धकम् । तस्मादेतादृशस्थले-सिषाधयिषाविरहात्मकविशेषणोपादाने तु सिषाधयिषाविरहविशिष्टसिद्धयभावरूपा पक्षता निराबाधा