________________
पक्षताप्ररूपणम् ।
२५७
प्रयुक्रविशिष्टाभावमादाय पक्षता, अर्थात्-यद्यपि एतादृशस्थले सिषाधयिषासिद्धी एते द्वे अपि स्तः, तथापि सिषाघयिषाभावरूपं विशेषणन्तु नास्ति इति तादृशविशेषणाभावद्वारा विशिष्टाभावं घटयित्वा पक्षता सम्पाद्यते येनाऽनुमितिर्निष्प्रत्यूहा। सिद्धावसत्यामिति-पूर्ववत् उभयाभावप्रयुक्तो विशिष्टाभावः । अर्थात् एतादृशस्थले सिषाधयिषा वर्तत इति सिषाधयिषाभावरूपं विशेषणं नास्ति, सिद्धिर्न वर्तत इति सिद्धिरूपं विशेष्यमपि नास्तीति कृत्वा द्वयोर्विशेषणविशेष्ययोरभावमुन्नीय पक्षतायां जायमानायामनुमितिज्ञानसम्पादने न काञ्चन बाधां पश्यामः ।।
यत्र च सिद्धिरस्तीति । अयमर्थ:-यत्र सिद्धिर्नाम प्रत्यक्षादिनिश्चयात्मकं ज्ञानं वर्तते उत्तेजनाकारिणी च सिषाधयिषा नास्त्येव, तादृशस्थले स्वप्नेऽपि न पक्षता यतः सिषाधयिषाभावविशिष्टा सिद्धिः अनुमितिप्रतिबन्धिकेति व्यवातिष्ठिपाम । नहि उत्ते. जककाभावे प्रतिबन्धकसत्त्वे च क्वचिदपि कार्य दृष्टचरम् । अनया रीत्या पक्षतास्थल एवानुमितिर्भवति नान्यथेति निश्चेतव्यम् । ' (मु० ) ननु यत्र परामर्शानन्तरं सिद्धिस्ततः सिषाधयिषा, तत्र सिषाधयिषाकाले परामर्शनाशानानुमितिः । यत्र सिद्धिपरामर्शसिषाधयिषाः क्रमेण भवन्ति तत्र सिषाधयिषाकाले सिद्धर्नाशात्प्रतिबन्धकामावादेवानुमितिः। यत्र सिषाधयिषासिद्धिपरामर्शाः सन्ति तत्र परामर्शकाले सिषाधयिषैव नास्ति । एवमन्यत्रापि सिद्धिकाले परामर्शकाले च न सिषाधयिषा, योग्यविभुविशेषगुणानां योगपद्यनिषेधात्, तत्कथं सिषाधयिषाविरहविशिष्टत्वं सिद्धेविशेषणमिति चेन्न, यत्र वह्निव्याप्यधूमवान् पर्वतो वह्निमानिति प्रत्यक्षं स्मरणं वा, ततः सिषाधयिषा तत्र पक्षतासंपत्तये तद्विशेषणस्यावश्यकत्वात् ।
(प्र० टी० ) पक्षतालक्षणे “सिषाधयिषाविरहविशिष्टे" तिपदं सिद्धौ विशेषणं दत्तं तद्वयर्थमिति मन्वानः शङ्कते-नन्विति । 'नन्वि" त्यारभ्य 'चेदि' त्यन्तः पूर्वपक्षग्रन्थः । “ने"त्यारभ्य "अावश्यकत्वादि"त्यन्तः उत्तरपक्षग्रन्थः । प्रतिप. दार्थ व्याख्याने न बहु फलं पश्याम इति (प्रायः) पूर्वपक्षाभिप्रायमनूद्य तत उत्तरपक्षग्रन्थसारः कथ्यते
* उक्तरीत्या सिद्धान्तरीत्या-"उक पक्षताङ्गीकारे तु श्रुत्या आत्मनिश्चयस्थलेऽनुमित्सायां सत्यामनुमित्साविरहलक्षणविशेषणाभावे तद्विशिष्टात्मनिश्चयस्याप्यभावेन सिषाधयिषाविरहसहकृ. तसिद्ध्यभावरूपाया: पक्षतायाः सत्त्वात् तत्राप्यनुमानं स्यादिति” अद्वैतसिद्धेः सिद्धिव्याख्या ।
+ परामर्शरूपकारणसत्त्वे सिद्धिरूपविरोधिसत्त्वे यधनुमित्सा स्यात् तदा तस्योत्तेजकत्वं वाच्यं नचैतत्सम्भवतीत्याशङ्कते-नन्विति दिनकरी ।