________________
२५६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
पक्षतालक्षणे सिद्धान्तमुत्का प्राचामुक्कीः खण्डयति-सिषाधयिषामात्र. मिति । सिषाधयिषामात्रम् अनुमानकरणेच्छामानं न पक्षता 'पर्वतो वह्निमान्" इत्यादिस्थले लक्षणस्य सङ्गतावपि “गगनं मेववत् घनगर्जनात्' इत्यत्राच्याप्तेः । अत्रानुमानेच्छारूपायाः सिषाधयिषाया अभावेऽपि गृहाभ्यन्तरस्थितस्य पुरुषष्य मेघगर्जनाद्वारा "गगनं मेघवत् घनगर्जनात्” इति मेघानुमितेरप्रतिहतत्वादित्यर्थः । अतएवेति-केचित्-“साध्यसन्देहः पक्षता" इति मन्यन्ते तदपि न युवमित्यर्थः । दर्शितोदाहरणे साध्यसन्देहाभावेऽप्यनुमानसत्त्वादित्याशयः।
इदमत्राकृतकम्-अनुमितिज्ञाने सिषाधयिषा उत्तेजिका, सिषाधयिषाभावविशिष्ट सिद्धिस्तु प्रतिबन्धिका । प्रतिबन्धकसत्त्वेऽपि कार्यजनकत्वमुत्तेजकत्वम्, कार्यविघातकत्वञ्च प्रतिबन्धकत्वमिति प्रत्यक्षखण्डे स्वतन्त्रशक्विपदार्थवादखण्डनेऽवोचाम । प्रकृते च सिद्धिसत्त्वेऽपि यद्यनुमित्सा जायेत तदापि पक्षतायाः सम्पन्नत्वेनानुमितिज्ञानं भवत्येवेति तात्पर्य हृदि कृत्वा "सिपाधयिषाविरहविशिष्टे' तिपदं सिद्धौ विशेषणं दत्तम् । अर्थात्-विशिष्टाभावरूपा पक्षता कदाचित् सिषाधयिषाभावरूपविशेषणस्य, कदाचित् सिद्धिरूपविशेष्यस्य चाभावात् , कदाचिद् विशेषणविशेष्योभयाभावात् फलिता भवति । एतदेवाग्रिमग्रन्थेन स्पष्टीकरोते "सिद्धौ सत्यामपि" इत्यादिना । इन्द्रियार्थसन्नि. कर्षजन्यं ज्ञानं सिद्धिः-तस्याः पर्वतादिपक्षे सत्त्वेऽपि अर्थात् यत्र पर्वते 'पर्वतो वह्निमान् ” इति चाक्षुषं प्रत्यक्षं जातम् , तदनन्तरं तत्रैव "पर्वते वह्निविषयकानुमिति, जायताम्" इत्याकारिकेच्छोत्पन्ना, तत्र यद्यपि साध्यवत्तानिश्चयोऽनुमिति प्रतिबध्नाति, तथापि सिषाधयिषोत्तेजिका वर्तते, तेन पक्षतायां जातायां वह्वेरनुमितिज्ञानं भवत्येवं । सिपाधयिषाभावविशिष्टा या सिद्धिः सैवानुमितेः प्रतिबन्धिका, नतु सिद्धिमात्रम् । एतन्मूलैव "प्रत्यक्षसिद्धमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिका" इति प्राचामुक्तिः । "नहि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातार" इत्युक्तिस्तु यत्र सिद्धिसरवे सिषाधयिषा न भवति तत्र घटते। . सम्प्रति पक्षताया तदभावस्य च स्थलं निर्धारयितुं विशेषतया वर्णयतितथाचेति । यत्र-स्थले सिद्धिः प्रत्यक्ष ज्ञानम् नास्ति-न वर्तते तत्र-सिषाधयि: षायां सत्याम्-उभयाभावप्रयुक्नविशिष्टाभावमादाय पक्षता ज्ञेया। अर्थात् सिषा. चयिषाया विद्यमानत्वात् तदभावरूपं विशेषणमपि नास्ति, सिद्धिरपि च नास्तीति कृत्वा विशेषणविशेष्योभयाभावमादाय सिद्ध्यभावरूपा पक्षता निर्बाधा । असत्यान्तु विशेष्याभावमात्रप्रयुक्तविशिष्टाभावमादाय, अर्थात् यत्र सिद्धिसिषाधयिषे द्वे
अपि न स्तः तत्र सिषाधयिषाविरहरूपं विशेषणन्तु वर्त्तते परं सिद्धिरूपं विशेष्यं नास्तीति कृत्वा विशिष्टाभावव्यवहारद्वारा पक्षतायां जायमानायामनुमितिर्भवत्येव ।
यत्र च सिषाधयिषाऽस्ति तत्र सिद्धौ सत्यामिति-पूर्ववत् विशेषणाभाव