________________
पक्षताप्ररूपणम्
२५५
__ (प्र० टी०) लक्षिता व्याप्तिः, व्याप्यस्य स्वरूपञ्चोक्कम् , तत्र व्याप्यस्य पक्षवृत्तित्व" मित्यत्र किं पक्षत्वं (पक्षता) इत्याकाङ्क्षायामाह-परममूले-सिषाधयिषयेति । साधयितुमिच्छा सिषाधयिषा अनुमित्सेत्यर्थः, तया शून्या विरहिता तदभावविशिष्टा सिद्धिः साध्यनिश्चयः यत्र ( पर्वतादौ ) न तिष्ठति न विद्यते स पक्ष:, तत्र पक्षे हेतोः वृत्तित्वज्ञानात्=परमर्शरूपात् अनुमितिरनुमा भवेत् स्यादिति कारिकाया ऋजुरर्थः।
(मु०) पक्षवृत्तित्वमित्यत्र पक्षत्वं किं तदाह सिषाधयिषेति । सिषाधयिषाविरहविशिष्टसिद्धयभावः पक्षता तद्वान्पक्ष इत्यर्थः । सिषाधयिषामात्रं न पत्क्षता विनापि सिषाधयिषां घनगर्जितेन मेघानुमानात् । अत एव साध्यसन्देहोऽपि न पक्षता विनापि सन्देहं तदनुमानात् । सिद्धौ सत्यामपि सिषाधयिषासत्वेऽनुमितिर्भवत्येव । अतः सिषाध. यिषाविरहावीशष्टत्वं सिद्धौ विशेषणम् । तथा च यत्र सिद्धिर्नास्ति तत्र सिषाधयिषायां सत्यामसत्यामपि पक्षता । यत्र च सिषाधयिषाऽस्ति तत्र सिद्धौ सत्यामसत्यामपि पक्षता । यत्र सिद्धिरस्ति सिषाधयिषा च नास्ति तत्र न पक्षता, सिषाधयिषाविरहविशिष्टसिद्धेः सच्चात्।
मूले पक्षतानिरूपणे सङ्गतरप्रदर्शनात् तां प्रदर्शयति टीकाकार:-पक्षवृत्तित्वमिति । अयमाशयः-अत्र प्रकृतः परामर्शः, तद्घटकं पक्षधर्मत्वमपि प्रकृतम्, सथाच तदुपपादकत्वेन उपोद्घातसङ्गत्या पक्षतानिरूपणम् । व्याप्तिनिरूपणानन्तरं पक्षतानिरूपणे तु एककार्यकारित्वमेव सङ्गतिः। एकं यत्कार्यमनुमितिरूपं तत्प्रयोजकत्वं यथा व्याप्तौ तथैव पक्षतायामित्यर्थः । अतएव दीधितिग्रन्थे "अनुमितिलक्षणैककार्यानुकूलतासङ्गत्या पक्षधर्मतां ( पक्षतां ) निरूपयितुमाह" इत्युक्तम् ।
(प्र. टी.) मूले पक्षतालक्षणं न स्पष्टमिति सिद्धान्तरीत्या पक्षतां लक्षयति-सिषाधयिषेति । सिषाधयिषाया विरहोऽभावः तद्विशिष्टा सिद्धिः= इन्द्रियार्थसन्निकर्षजन्यः “ पर्वतो वह्निमान् " इत्याकारकश्चानुषो निश्चयः तादृशसिषाधयिषाविरहविशिष्टसिद्धिः, तादृशविशिष्टसिद्धेर्योऽभावः स एव पक्षता पक्षवृत्तिधर्मः ताह. शपक्षतायाः श्राश्रय पर्वतादिः पक्षः । अयमाशयः-"पर्वते वन्यनुमितिम भवेत्" इत्याकारा या इच्छा सा "सिषाधयिषा" इत्युच्यते । सिषाधयिषा अनुमित्सेत्यनान्तरम् । तादृशसिषाधयिषाभावविशिष्टसिद्धयभाव: पक्षता, स्वप्रतियोगिविशेष्यतासम्बन्धेन तद्वान् पक्षः। "स्व" पदेन सिषाधयिषाभावविशिष्टसिद्धयभावस्य ग्रहणम् । “पर्वतो वह्निमान्" इत्याकारकप्रतिज्ञावाक्ये वह्निर्विशेषणं, पर्वतो विशेष्यः, विशेष्यता पर्वतनिष्ठा, सचोक्नविशेष्यतासम्बन्धद्वारा दर्शितपक्षताया श्राश्रयत्वात् पक्षः।
*-तादृशपक्षता क्वचिद्विशेषणाभावप्रयुक्ता, कचिद्विशेष्याभावप्रयुक्ता, कचिदुभयामावप्रयुक्तेत्युपपादयति-तथाचेति । सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपायाः पक्षतायाः ।