________________
२५४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
अधिकं न्यायचिन्तामण्यादिग्रन्थेषु द्रष्टव्यमित्याह-"इति सङ्क्षप" इति । यदि च "कम्बुग्रीवादिमान्नास्ति' इत्यादौ कम्बुग्रीवादिमत्प्रतियोगिताकाभाव एव विषयो नतु कम्बुग्रीवादिमन्वे तत्प्रतियोगितावच्छेदकत्वमपीत्युच्यते तदा यत्किञ्चिद्घटवत्यपि "कम्बु. प्रीवादिमानास्ति' इति वाक्यस्य प्रामाण्यापत्तिरिति हृदि निधाय अाह “सङ्क्षप" इति दिनकरी । ननु -"कम्बुग्रीवादिमान् नास्ति' इत्याकारा प्रतीतिः कम्बुग्रीवादि. मनिष्ठप्रतियोगिताकाभावविषयिण्येव मन्तव्या नतु गुरुधर्मस्याप्यवच्छेदकत्वसाधिकेयं प्रतीतिरित्यत्र किञ्चित् प्रमाणं पश्यामः । यदि-"कम्बुग्रीवादिमानास्ती "ति प्रतीतिर्गुरुधर्मस्याऽवच्छेदकत्वं न विषयीकरोतीति मन्यसे तदा यत्किञ्चिद्घटवत्यपि भूतले “कम्बुप्रीवादिमानास्ति' इति वाक्यस्यापि प्रामाण्यापत्तिरतस्तद्वारणाय नअर्थाभावे कम्बुग्रीवादिमत्पदार्थकम्बुग्रीवादिमत्त्वविशिष्टम्यैव शाब्दबोधे प्रतियोगितासम्बन्धेन भानस्वीकारात् 'प्रभावे यद्धर्मविशिष्टवैशिष्टयमवगाहते तत्र तद्वविच्छिन्नप्रतियोगिताकत्वम्" इति नियमेन कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताकाभावाऽप्र. सिद्धया गुरुधर्मस्थापि प्रतियोगितावच्छेदकत्वमवश्यमङ्गीकर्तव्यमिति वाच्यञ्चेत् ? "अभावे यद्धर्मविशिष्टवैशिष्टयमवगाहते तत्र तद्धर्मसमनियतधर्मावच्छिन्नप्रतियोगिताकत्वम् " इत्येवनियमोऽङ्गीकर्त्तव्य इति ज्ञायताम् । अन्यथा-"गन्धवद्घटो नास्ति' "पृथिवीघटो नास्ति " "द्रव्यघटो नास्ति' इत्यादिप्रतीत्या कम्बुग्रीवादिमत्त्वस्येव गन्धवद्घटत्वादीनामप्यवच्छेदकत्वसिद्धया अप्रामाणिकानन्ताभावकल्पनापत्तेः । एवञ्च-“कम्बुग्रीवादिमानास्ती' त्यादिप्रतीतेः कम्बुग्रीवादिमत्त्वसमानयतघटत्वावच्छिन्न प्रतियोगिताकाभाव एष कम्बुग्रीवादिमत्त्वविशिष्टवैशिष्टयावगाहित्वं स्वीक्रियते नतु तद्घटत्वावच्छिन्न प्रतियोगिता. काभावे तद्घटत्वस्य कम्बुग्रीवादिमत्त्वसमनियतत्वाभावात् अतो यत्किञ्चिद्घटवति न तादृशप्रतीत्यापत्तिः तस्माद् गुरुधर्मस्य प्रतियोगितावच्छेदकत्वे प्रमाणं मृग्यमित्यस्वरसत्सङ्गेप" इति प्राचीनप्रभाशयः ।
इति व्याप्तिवादः ।
(का०) सिषाधयिषया शून्या सिद्धिर्यत्र न विद्यते ।
स पक्षस्तत्र वृत्तित्वज्ञानादनुमितिर्भवेत् ।। ७० ॥ च्छेदकत्वञ्च । “इदानी चत्वरे गौनास्ति' इत्यादौ एतत्कालेऽपि गवाभावस्यावच्छदकत्वम् । वस्तुतस्तु-तत्तन्निष्ठमवच्छेदकत्वं तत्तद्वित्तिवेद्यमेवेति नैवानुगमय्य निर्वक्तुं शक्यमिति तु वयम् । अधिकमन्यतो ज्ञेयम् । कारणतावच्छेदक-कार्यतावच्छेदक लक्ष्यतावच्छेदक-साध्यतावच्छेदक-साधन तावच्छेदकधर्मादिनिरूपणमप्यूहनीयम् । अर्थात् यद्धर्मविशिष्टं कारणं भवति स धर्मः कारणतावच्छेदकः । यथा-घटं प्रति दण्डत्वधर्मविशिष्ट एव दण्डः कारणम् , अतो दण्डत्वं कारणतावच्छेदकम् । पटम्प्रति तन्तुत्वधर्मावच्छिन्नस्तन्तुः कारणमतः तन्तुत्वं कारणतावच्छेदकमित्यादि।