________________
व्याप्तेः सिद्धान्तलक्षणपरिष्कारः।
२५३
संयोगेन धूमाभावो हेत्वधिकरणे लोहपिण्डेऽपि मिलिष्यति । परन्तु संयोगेन धूमाभावीयप्रतियोगितायामुभयाभावो नास्ति किन्तुभयमेवास्तीति नातिव्याप्तिः ।
__(मु०) ननु प्रमेयवह्निमान् धूमादित्यादौ प्रमेयवह्नित्वावच्छिन्नत्वमप्रसिद्धं गुरुधर्मस्याऽनवच्छेदकत्वादिति चेन्न, कर्बुग्रीवादिमाना. स्तीति प्रतीत्या कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगितांविषयीकरणेन गुरुधर्मस्याप्यवच्छेदकत्वस्वीकारादिति सक्षेपः ॥ (प्र० टी ) पूर्वोक्तानां सर्वेषां लक्षणानामव्याप्तिं शङ्कते-नन्विति । “पर्वतः प्रमेय- . वह्निमान् धूमाद्" इत्यत्र साध्यतावच्छेदको धर्मः प्रमेयवह्नित्वमेवेति भन्तन्यम्, परं तस्यावच्छेदकत्वं न स्वीक्रियते “सम्भवति लघुधर्मे गुरौ तदभावाद् इति न्यायात् । प्रकृते प्रमेयवतित्वस्य समनियतो वह्नित्वरूपो धर्म एवावच्छेदको भवितुमर्हति लघुत्वात् , परन्त्वसौ साध्यतावच्छेदको नास्ति । साध्यतावच्छेदको धर्मः प्रमेयवाहित्वरूपः, परमसौ गुरुधर्मत्वादवच्छेदको भवितुं नार्हति । सर्वेषु चोकलक्षणेषु साध्यतावच्छेदकधर्मस्य निवेशः स्वीकृतः, दर्शितरीत्या त्ववच्छेदकाप्रसिद्धिनिबन्धनोऽध्याप्तिदोष इति शङ्काकर्तु। राशयः । श्रप्रसिद्धमिति । तथाचान्याप्तिरिति भावः।
___ तदेतत् सिद्धान्ती खण्डयति-इतिचेन्नेति । अयमर्थः-पदार्थानां सिद्ध्यसिद्धी प्रतीत्यनुरोधेन भवतो नतु कल्पनामात्रतया । "इह भूतले कम्बुग्रीवादिमानास्ति" इति प्रतीतौ कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगिताकोऽभावो भासते, तादृशाभावीया प्रतियोगिताऽपि कम्बुग्रीवादिमत्त्वावच्छिन्नैव भवति । तथा चैवंप्रतीत्यनुरोधेन गुरुधर्मस्याप्यवच्छेदकत्वस्वीकारे । "प्रमेयवह्नित्वस्याप्यवच्छेदकत्वमस्त्येव, तेन सर्वत्र दोषपरिहारः ।
*-यत्सम्बन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वोभयाभावो नास्ति । किन्तु-संयोगसम्बन्धावच्छिन्नत्वधूमत्वधर्मावच्छिन्नत्वोभयत्वमेवास्ति ।
तथाच-तादृशप्रतियोगितासामान्याम्तःपातिधूमनिष्ठप्रतियोगितायामुभयाभावाऽसत्त्वानातिव्याप्तिरिति भावः।
* अवच्छेदकत्वं स्वरूपसम्बन्धविशेषः। स च कचित्प्रतियोग्यंशप्रकारीभूतधर्मत्वम् । . यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छेदकत्वं धूमत्वम् । कचित्तु-"अनतिरिक्तवृत्तित्वं तत् । तच्च द्विविधं । तत्राद्यम्-तच्छून्यावृत्तित्वे सति तदधिकरणवृत्त्यभावप्रतियोगित्वम् । यथा घटाभावप्रतियोगिताया अवच्छेदकत्वं घटत्वे । द्वितीयन्तु-व्यावर्तकत्व-सामानाधिकरण्य-खनिष्ठावच्छेद्यताकत्वैतत्रितयसम्बन्धेन यत्किञ्चद्धर्मविशिष्टत्वम्,। यथा-घटकारणताया अवच्छेदकत्वं दण्डे । कचित्तु-तदधिकरणस्य तन्निष्टधर्मावच्छेदकत्वम् । यथा-मूले वृक्षे न कपिसंयोगः शाखायाम्" इत्यादौ वृक्षाधिकरणस्य मूलस्य वृक्षनिष्ठकपिसंयोगाभावावच्छेदकत्वम, वृक्षाधिकरणस्य शाखादेवृक्षनिष्ठकपिसंयोगावच्छेदकत्वञ्च । यथा वा-"इह पर्वते नितम्व हुताशनः, न शिस्त्ररे" इत्यत्र नितम्वरूपदेशस्य हुताशनावच्छेदकत्वम्, शिखरस्य तु हुताशनाभावाव