________________
२५२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
किन्तु-"प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यमधिकरणीभूतहेत्वधिकरणवृत्यभावप्रतियोगितासामान्ये यत्सम्बन्धावच्छिन्नत्वाभावः तेन सम्बन्धेन तद्धेतोः सामानाधिकरण्यं न्याप्तिः " इत्येतावन्मानं लक्षणमुच्येत तदा पुनरप्यंत्रवान्याप्ति: स्यात् ? यतो हेत्वधिकरणे पर्वते संयोगसम्बन्धावच्छिन्ना घटाभावीया घटनिष्ठा या प्रतियोगिता तस्यां तत्सम्बन्धावच्छिन्नत्वाभावो नास्ति, प्रत्युतः साध्यतावच्छेदकसयोगसम्बन्धावच्छिन्नत्वं धर्मो वर्त्तत एवेत्यव्याप्तिरापतति।
.. यत्सम्बन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वोभयनिवेशे तु नास्ति दोषः, यतो यद्यपि घटाभावीयघटनिष्ठप्रतियोगितायां साध्यताच्छेदकसंयोगसम्बन्धावच्छिन्नत्वं वर्तते तथापि साध्यतावच्छेदकवतित्वधर्मावच्छिन्नत्वं नास्ति । एवम् "एकसत्वेऽपि द्वयं मास्ति" इतिप्रतीत्यनुरोधाद् घटाभावीयप्रतियोगितायामुभयाभावः शक्यत उन्नेतुम्, तथाच . लक्षणसमन्वयः।
लक्षणाकारस्तु-"प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावीया या प्रतियोगिता, तादृशप्रतियोगितासामान्ये यत्सम्बन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वोभयाभावः तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य तद्धेतुव्यापकत्वं, तादृशव्यापकसामानाधिकरण्यञ्च व्याप्तिरिति।
__(मु०) इत्थं च कालो घटवान् कालपरिमाणादित्यादौ संयोगसम्बन्धेन यो घटाभावस्तत्प्रतियोगिनो घटस्यानधिकरणे हेत्वधिकरणे महाकाले वर्तमानः स एव संयोगेन घटाभावस्तस्य प्रतियोगितायां कालिक सम्बन्धावच्छिन्नत्वोभयाभावसत्त्वान्नाव्याप्तिः । “धूमवान् वह्नः" इत्यादावतिव्याप्तिवारणाय सामान्यपदमुपात्तम्।, ... स्थलान्तरेऽपि लक्षणं समन्वेतुमाह-इत्थश्चेति । अयमर्थः- "कालो घटवान् कालपरिमाणात्" इत्यादावपि नास्ति दोषः । अत्र संयोगेन घटभावीया घटनिष्ठा या प्रतियोगिता, तस्या यद्यपि साध्यतावच्छेदकघटत्वधर्मावच्छिन्नत्वमस्ति, तथापि साध्यतावच्छेदककालिकविशेषणतासम्बन्धावच्छिन्नत्वं नास्ति, तेन चैकसत्त्वन्यायेन संयोगेन घटाभावीयघटनिष्ठप्रतियोगितायामुभयाभावस्तिष्ठति इति कालिकविशेषणतासम्बन्धेन तद्घटत्वधर्मावच्छिन्नस्य तत्कालपरिमाणरूपहेतोः सामानाधिकरण्यं व्याप्तिरित्यदोषः । __ननु-'प्रतियोगितासामान्ये' इत्यस्य स्थाने “यत्किञ्चित्प्रतियोगितायाम्" इति निवेशे उपस्थितिकृतं लाघवमित्याक्षेपं समाधातुमाह-"धूमवान् वह्न' रिति । अत्र समाधातुरयमाशयः-यदि सामान्यपदं विहाय यत्किञ्चित्पदनिवेश: स्यात् तदा "धूमवान् वढे" रित्यत्रैवातिव्याप्तिः स्यात् , उकरीत्या यत्किञ्चित्पदग्राह्यघटनिष्ठप्रतियोगितायामुभयाभावसत्त्वेन लक्षणसङ्गतेः। यावदर्थकसामान्यपदनिवेशे तु यावद. न्तर्गताया: संयोगेन धूमाभावीयप्रतियोगिताया अपि ग्रहणं भविष्यति, अर्थात्