________________
व्याते: सिद्धान्तलक्षणपरिष्कारः।
२५१
मर्थः-अभावीयप्रतियोगिताया श्रवच्छेदको यः सम्बन्धः, तेन सम्बन्धेन प्रतियोगिनोऽनधिकरणीभूतं यद्धेतोरधिकरणम्, तद्वृत्तिर्योऽभावः, तदभावीया या प्रतियोगिता, तत्सामान्ये ( अवच्छेद्यावच्छेदकतया यावत्प्रतियोगितास्वरूपे) यत्सम्बन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वैतदुभयाभावः, तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य हेतुव्यापकता ज्ञेया तादृशव्यापकसामानाधिकरण्यञ्ज्ञ व्याप्तिः ।
(मु०) यत्सम्बन्धः साध्यतावच्छेदकसम्बन्धः, यद्धर्मः साध्यतावच्छेदको धर्मः । तत्र यदि यद्धर्मावच्छिन्नत्वाभावमात्रमुच्यते तदा समवायेन यो वन्ह्यभावः तस्य प्रतियोगितावच्छेदकसम्बन्धः समवायः तेन प्रतियोग्यनधिकरणपर्वतादिवृत्तिः स एव, तत्प्रतियोगितावच्छेदकञ्च वह्नित्वमित्यव्याप्तिः स्यात्, यदि च यत्सम्बन्धावच्छिन्नत्वाभावमात्रमु. च्यते तदा तादृशस्य संयोगेन घटाभावस्य प्रतियोगितायां संयोगसम्बन्धावच्छिन्नत्वसत्त्वाव्याप्तिः स्यादत उभयमुपात्तम् ।।
(प्र. टी० ) यत्सम्बन्धावच्छिन्नत्वोभयाभावपदनिवेशफलं दर्शयतियत्सम्बन्ध इति । अयमत्राशयः-यदि लक्षणे साध्यतावच्छेदकसम्बन्धग्रहणं न स्यात् किन्तु-" प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावप्रतियोगितासामान्ये यद्धर्मावच्छिन्नत्वाभावः तद्धर्मावच्छिन्नस्य तद्धेतु. सामानाधिकरण्यं व्याप्तिः" इत्याकारकं लक्षणं क्रियेत तदा “वह्निमान् धूमात्" अत्रैवाव्याप्तिः स्यात्, यतो हेत्वधिकरणे पर्वते संयोगेन वह्निसत्वेऽपि “समवायेन वह्निर्नास्ति' इत्याकारकः समवायसम्बन्धावच्छिन्नो वन्यभावः शक्यते उन्नेतुम्, । एतादृशाभावीया प्रतियोगिता वह्निनिष्ठैव । लक्षणान्तर्गतप्रतियोगितासामान्यपदेन तु यावत्प्रतियोगिता विवक्षिता, अर्थात् हेत्वधिकरणे पर्वतादौ येन येन सम्बन्धेन येन येन धर्मेण यो योऽभावो गृह्येत तस्य तस्याभावस्य प्रतियोगितायामुभयाभावो विवक्षितः । परमुक्तरीत्या समवायेन वह्निनिष्ठा प्रतियोगितापि यावत्पदान्तर्गता, परन्तु तत्र यद्धर्मावच्छिन्नत्वाभावो नास्ति, प्रत्युत यद्धर्मपदग्राह्यः साध्यतावच्छेदको वहिवरूपो धर्मोऽस्तीत्यव्याप्तिलक्षणस्यायाता भवत्यस्तद्वारणाय यत्सम्बन्ध" पदनिवेश। तेन साध्यतावच्छेदकसम्बन्धग्रहणे समवायेन वन्ह्यभावीयप्रतियोगितायां यद्यपि साध्य. तावच्छेदकधर्मस्य ( वह्नित्वस्य ) अभावो नास्ति तथापि तस्यां साध्यतावच्छेदक. संयोगसम्बन्धस्याभावो वर्तत एवेति “एकसत्त्वेऽपि द्वयं नास्तीतिप्रतीत्यनुरोधेन उभयाभावमुपादाय दोषाभावः ।
एवम् -प्रभावीयप्रतियोगितायां यदि साध्यतावच्छेदकधर्मनिवेशो न स्यात्
खण्डकालावगाहित्वेन महाकालावगाहिन्याः प्रतीतेविलोपप्रसङ्ग इत्यस्वरसादाह 'वस्तुतस्त्विति'।