________________
प्रविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [ श्रनुमानखण्डे
स्थातुं योग्योऽस्ति, स्वस्मिन् स्वभेदानङ्गीकारात् इत्याशयवानाह - महाकाल इति । अयं भावः तत्रैव विशिष्टाधिकरणता भवति, यत्र सामानाधिकरण्यघटकीभूतेन विशेष्यविशेषणभावसम्बन्धेन विशेष्यविशेषणयोरुभयोरपि सत्त्वलाभः स्यात्, यत्र त्वन्यतरसत्ता नास्ति, तत्र तदभावप्रयुको विशिष्टाभाव एव भवति । प्रकृते स्वभावीय विशेषणतासम्बन्धेन महाकाले महाकालभेदस्याभावात् महाकालभेदविशिष्टस्यापि घटस्य विशेषणाभावप्रयुक्तो विशिष्टाभावः, सच स्वप्रतियोगिव्यधिकरणतया लक्षणघटक इति 1 नाव्याप्तिः ।
यद्यपि महाकालः सकलजगदाधारः, सकलजगत्पदान्तः पातित्वात् यथाऽसौ कालिकविशेषणतासम्बन्धेन घटाधिकरणं तथा तस्यैव घटस्य योऽभावस्तदधिकरणमपीति न प्रतियोगिव्यधिकरणोऽभावः प्रकृते लभ्येत यो लक्षणघटको भवेत्, तथापि " घटो न महाकाल" इत्याकारकप्रत्ययेन महाकालभेदविशिष्ठो यो घटः तस्य त्वाधारो नास्ति महाकालः, यतोऽभावीयविशेणतासम्बन्धेन महाकाले महाकालभेदस्याऽभाव एवं स्वस्मिन्स्वभेदानङ्गीकारादित्येकदेशिमतस्य परमसारः ।
२५०
-
यत्सम्बन्धाव
( मु० ) वस्तुतस्तु प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूत हेत्वधिकरणवृत्त्यभावप्रतियोगितासामान्ये च्छिन्नत्वयद्धर्मावच्छिन्नत्वोभयाभाव स्तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य तद्धेतुव्यापकत्वं बोध्यम् । व्यापक सामानाधिकरण्यं च व्याप्तिः ।
( प्र० टी० ) पूर्वं कालिकविशेषणतासम्बन्धेन घटस्य साध्यताविवक्षायां दोषे प्राप्ते महाकालभेदविशिष्टघटाभावः प्रतियोगिव्यधिकरणोऽस्तीत्युक्का समाधानं कृतम्, परन्तु यदि महाकालमात्रवृत्तिविशेषणतासम्बन्धेन ( " इदानीं घटो वर्त्तत " इत्याकारकेण ) साध्यताया विवक्षा सम्भवेत् तदा महाकालभेदविशिष्टोपि घटाभावः प्रतियोगिव्यधिकरणो नार्हति भवितुम् । उक्तसम्बन्धेन महाकालान्यत्वविशिष्टघटाधिकरणस्याप्रसिद्धेरित्यरुचेः सिद्धान्तमाश्रित्य कल्पान्तरमाह - वस्तुतस्त्विति । श्रय
*- – “विशेषणविशेष्योभय सम्बन्धाभ्यां विशेषणविशेष्योभयसत्त्वं यत्र तत्रैव विशिष्टाधिकरणत्वम्" इति न्यायशरीरम् ।
† - दैशिकविशेणतया महाकाले महाकालभेदाऽसत्वेन महाकालान्यत्वावशिष्टाधिकरणस्वं न सम्भवतीति खण्डकाले प्रसिद्धतादृशविशिष्टाधिकरणत्वस्याभाव: हेत्वधिकरणे महाकाले वर्त्तते इति तादृशप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेद के सत्त्वान्नाव्याप्तिरिति भावः ।
+–यस्याभावस्य प्रतियोगितावच्छेदकत्वं द्वित्वं स उभयाभावः । यथा “घटपटौ न स्तः " इति । अस्याभावस्य प्रतियोगिता घटपटोभयनिष्ठा तदवच्छेदकञ्च द्वित्वमतोऽयमुभयाभाव उच्यते ।
8 अथवा " इदानीं महाकालभेदविशिष्टो घटः, कालोयं महाकालान्यत्व विशिष्टघटवान् ” इत्यादिप्रतीतिबलान्महाकालेऽपि महाकालान्यत्वविशिष्टघटसत्त्वम्, अन्यथा सर्वासामेव प्रतीतीनां