________________
व्याप्तेः सिद्धान्तलक्षणपरिष्कारः।
२४६
"श्रात्मा कपिसंयोगाभाववान् अात्मत्वात्" इत्यत्रोक्ताकारलक्षणस्य सङ्गमनप्रकारश्वायम्-श्रात्मा पक्ष:, कपिसंयोगाभावः साध्यम् , अात्मत्वं हेतुः । साध्यतावच्छेदकं, कपिसंयोगाभावत्वम् , साध्यतावच्छेदकसम्बन्धः स्वरूपसम्बन्धः, तत्सम्बन्धावच्छिन्ना गुणसामान्याभावीया या गुणसामान्याभावत्वावच्छिन्ना गुणसामान्याभावनिष्ठा प्रतियोगिता, तादृशप्रतियोगितावच्छेदकत्वं गुणसामान्याभावत्वम् , तदवच्छिन्नो गुणसामान्याभावः सस्यानधिकरणं यो हेतुतावच्छेदकाभूतसमवायसम्बन्धावच्छिन्नात्मत्वाधिकरणमात्मा, तद्वृत्त्यभावनिरूपिता या गुणसामान्याभावत्वावच्छिन्ना गुणसामान्याभावनिष्ठा प्रतियोगिता तादृशप्रतियोगिताया अनवच्छेदकं यत्साध्यतावच्छेदकं कपिसंयोगाभावत्वं, तदवच्छिन्नः कपिसंयोगाभावः, तेन साध्यभूतेन साकमात्मत्वरूपहेतोः आत्मरूपैकाधिकरणे सामानाधिकरण्यमस्त्येवेति नानुपपत्तिलक्षणस्य ।
(मु०) ननु कालो घटवान् कालपरिमाणादित्यत्र प्रतियोगिव्याधिकरणाभावाप्रसिद्धिः, हेत्वधिकरणस्य महाकालस्य जगदाधारतया सर्वेषामभावानां साध्यतावच्छेदकसम्बन्धेन कालिकविशेषणतया प्रतियोग्य: धिकरणत्वात् ।
(प्र० टी०) स्थलान्तरे सर्वलक्षणाव्याप्तिं शङ्कते-नन्विति। पदार्थः सुगमोऽतोऽभिप्रायो निरूप्यते
" कालो घटवान् कालपरिमामाणात्" इत्यत्र काले पक्षे कालिकसम्बन्धेन घट: साध्यः, समवायसम्बन्धेन कालपरिमाणं हेतुः, अर्थात्-साध्यतावच्छेदकसम्बन्धः कालिकसम्बन्धः, हेतुतावच्छेदकसम्बन्धः समवायसम्बन्धः कालपरिमाणरूपहेतोर'धिरणं महाकालः कालिकविशेषणतासम्बन्धेन जगन्मात्रस्याश्रयः “जन्यानां जनक: कालो जगतामाश्रयो मत" इत्युक्तः। जगच्छब्दान्तःपाती पदार्थमात्रस्याभावोऽप्यस्ति। अनया रीत्या साध्यतावच्छेदककालिकसम्बन्धेन ‘पदार्थ( वस्तु मात्रस्याभावः महाकालाधिकरणे स्वप्रतियोगिसमानाधिकरण इति कृत्वा प्रतियोगिव्यधिकरणाभावाप्रसिद्धिस्तदवस्थैवेति भूयोऽप्यव्याप्तिरायाता।
(मु०) अत्र केचित् । महाकालभेदविशिष्टघटाभावस्तत्र प्रतियोगिव्यधिकरणो महाकालस्य घटाधारत्वेऽपि महाकालभेदविशिष्टघटानाधारत्वात् महाकाले महाकालभेदाभावात् । .. (प्र० टी० ) तावदेकदेशिमतेन समाधत्ते-अत्र केचिदिति । हेत्वधिकरणं यो महाकालः इतन्त्राभावीयविशेषणताघटितसामानाधिकरण्यसम्बन्धेन महाकालभेदविशिष्टघटाभावो गृह्येत, स एवाभावः प्रतियोगियधिकरणो भविष्यति । तत्र हेतुमाह महाकालस्येति । यद्यपि महाकालो घटाधारः तथाप्यसौ महाकालभेदविशिष्टो यो घटः तस्य त्वनाधार एव । नह्यभावीयविशेषणतासम्बन्धेन महाकाले महाकालभेदः
* " कालोऽयं महाकालान्यत्त्वविशिष्टघटवान् " इत्याकारकातीतेः ।