________________
२४८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे भावाभाव उन्नीयते, तत्प्रतियोगिता गुणसामान्याभावनिष्ठा, प्रतियोगितावच्छेदकं गुणसामान्याभावत्वम् । एतदेव यत्किञ्चित्प्रतियोगितावच्छेदकधर्मेण गृह्येत, तदवच्छिन्नो गुणसामान्याभावः, तस्यानधिकरणं हेत्वधिकरणञ्चात्मेत्यव्याप्तिः ।।
तथाच-यत्किञ्चित्प्रतियोगिताऽवच्छेदकाऽवच्छिन्नाऽनधिकरणीभूतहेत्वधिकरण आत्मनि वर्तते यः संयोगाभावाभावः, तादृशाभावप्रतियोगितावच्छेदकमेव साध्यता. वच्छेदकं कपिसंयोगाभावत्वमित्यव्याप्तिः । ___इदमत्राकूतकम् -कपिसंयोगो गुणसामान्यान्तःपातीत्यविवादम्, तस्मात् कपिसंयोगाभावे कपिसंयोगाभावत्वं गुणसामान्याभावत्वञ्चेति द्वौ धर्मों वर्तते । तत्र यत्किञ्चित्प्रतियोगितावच्छेदकपदेन गुणसामान्याभावत्वरूपावच्छेदकधर्मस्याऽपि ग्रहणं शक्यते कर्तुमिति नात्र किञ्चिद्वाधकम्पश्यामः । तदवच्छिन्नगुणसामान्याभावस्यानाधिकरणमेव हेत्वधिकरणमात्मा । यद्यपि-कपिसंयोगाभावत्वेन रूपेण कपिसंयोगाऽभावाऽभावो हेत्वधिकरणे आत्मनि नास्ति, प्रत्युत कपिसंयोगाऽभावाऽभावाऽ. भावोऽस्ति, तथापि गुणसामान्याभावत्वेन रूपेण कपिसंयोगाभावाभावो वर्तत एवात्मनि । यत्किञ्चित्प्रतियोगितावच्छेदकधर्मपुरस्कारेण गृहीतं यत्साध्यं गुणसामान्या. भावरूपं तस्याभाव एव हेत्वधिकरण अात्मनि प्राप्तः, तेन तत्रात्मत्वहेतोः साध्यसामानाधिकरण्यं नास्ति, किन्तु साध्याभावसामानाधिकरण्यमायातमिति साध्यसाधनाय प्रयुक्त श्रात्मत्वं हेतुः, तद्विरुद्धं साध्याभावसाधनाय प्रवृत्त इति साध्याभावव्याप्तत्वाद्विरुद्धो हेत्वाभासो जातः।
(मुक्ता०) मैवम् । यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं हेतुमतस्तादृशप्रतियोगितानवच्छेदकत्वस्य विवक्षितत्वात् ।
(प्रभा०) एवञ्जाते विस्तृते पूर्वपक्षे सिद्धान्ती तृतीयम्पक्षमाश्रित्य समाधत्ते"मैवम्" इति । “यादृश" इति ।
अयमस्याशयः-यादृशप्रतियोगितावच्छेदकावच्छिन्नस्याऽनधिकरणं यद्धत्व. धिकरणमस्ति तादृशप्रतियोगिताया अनवच्छेदको यः साध्यतावच्छेदको धर्मः तस्यैवात्र विवक्षा कर्तव्या। तेन पूर्वपक्षद्वयाङ्गीकारनिमित्ता दोषप्राप्तिरपि नास्ति । प्रकृते च तृतीयपक्षमाश्रित्य "आत्मा कपिसंयोगाभाववान् आत्मत्वात्" इत्यत्रोद्भाविताऽव्याप्तिरपि परिहत्तुं शक्यते। कुतः- “यादृशप्रतियोगिता"पदेन गुणसामान्याभावत्वावच्छिन्नगुणसामान्याभावनिष्ठा या प्रतियोगिता तस्या एव ग्रहणं कर्तुमुचितम्, तेन गुणसामान्याभावनिष्ठप्रतियोगिताया अनवच्छेदक: साध्यतावच्छेदकश्च धर्मः कपिसंयोगाभावस्वमस्ति, तदवच्छिन्नं साध्यं कपिसंयोगाभावरूपम् , तेन सहात्मत्वहेतोः सामानाधिकरण्यमेवेति नाव्याप्तिशङ्कापि।