________________
व्याप्तेः सिद्धान्तलक्षणपरिष्कारः।
सम्बन्धेन सर्वस्यापि वस्तुनोऽभावः पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोगिना सह वह्नयभावात्मकहेत्वधिकरणे हृदादौ वर्तत इत्यभावसाध्यकस्थले प्रतियोगिव्यधिकरणाभावाप्रसिद्धिनिबन्धनोऽव्याप्तिदोषो दुष्परिहरः।
___अथैतदोषपरिजिहीर्षया “यत्किञ्चिद् यः प्रतियोगितावच्छेदको धर्मः, तदव. च्छिन्नसामान्यस्य अनधिकरणत्वम्” इति तृतीयः कल्प अाश्रीयेत, तदा यद्यपि उक्तेऽभावसाध्यकस्थले दोषो नास्ति, कुतः यत्किञ्चित्प्रतियोगितावच्छेदकपदेन घटत्व. पटत्वादिधर्मस्यापि ग्रहणं शक्यते कर्तुम् , तदवच्छिन्ना घटपटाद्याः प्रतियोगिनः : तदवच्छिन्नघटादिसामान्यानधिकरणम् अथच वयभावरूपहेतोरधिकरणं जलहृदः, तवृत्त्यभावीयप्रतियोगिताऽवच्छेदकं घटत्वादिकम् , अनवच्छेदकं साध्यताऽवच्छेदकं धूमाभावत्वम् , तदवच्छिन्नो धूमाभावः, तेन जलहदात्मकाधिकरणे वयभावरूपहेतोः सामानाधिकरण्यमिति नाव्याप्तिरिति युक्तमाभाति, तथापि लक्ष्यान्तरे सा वर्तत इति तां दर्शयामः । तथाहि
. (मुक्का०) तृतीये तु कपिसंयोगाभाववान् श्रात्मत्वादित्यादावव्याप्तिः। तत्रात्मवृत्तिकपिसंयोगाभावाभावः कपिसंयोगस्तस्य च गुणत्वात्तत्प्रतियोगिताऽवच्छेदकं गुणसामान्याऽभावत्वमपि तवच्छिन्नाऽनधिकरणत्वं हेत्वधिकरणस्यात्मन इति ।
__(प्रभा०) तृतीयकल्पे दोषमासञ्जयति-"तृतीये तु"-इति । अयमस्य ग्रन्थस्यार्थाऽवबोधनप्रकारः- "पारमा कपिसंयोगाभाववान् अात्मत्वात्" इत्यत्रात्मनि पक्षे कपिसंयोगाभावः साध्यः, अात्मत्वं व्यतिरेकी हेतुः । श्रात्मत्वरूपहेत्वधिकरणे अात्मनि घटाभावोऽपि वर्तते, घटाभावीययत्किञ्चित्प्रतियोगितावच्छेदकं घटत्वम् , तदवच्छिन्नस्य घटस्यानधिकरणम् अथचात्मत्वहेतोरधिकरणमात्मास्तीति नैव प्रतियोगिव्यधिकरणाभावाप्रसिद्धिनिबन्धनोऽव्याप्तिदोष इति यद्यपि शक्यते वक्तुम् , तथापि यत्किञ्चित्प्रतियोगितापदेन साध्यतावच्छेदकधर्मस्य व्यापकीभूतो यो धर्मः गुणसामान्याभावत्वरूपः तस्यापि ग्रहणं शक्यते कर्तुम् , तेन तदवस्थैवाव्याप्तिः ।
- अयमस्या उद्भावनप्रकार:-अत्र हेतु: भात्मत्वम् , तदधिकरणमात्मा, तद्वृत्ति र्योऽभावः कपिसंयोगाभावाभावः, सच कपिसंयोगस्वरूपः, संयोगश्च सङ्ख्यादि. दशसामान्यगुणान्तर्गतः, सच गुणसामान्याभावाभावस्वरूपः, अर्थात् गुणसामान्यरूपतया पर्यवसितः, एवञ्च साध्याभावः कपिसंयोगो गुणसामान्याभावरूपतया पर्यवसितः, तस्य-कपिसंयोगाभावाभावस्य प्रतियोगिता कपिसंयोगाभावनिष्ठा तथा गुणसामान्याभावनिष्ठापि वर्त्तते । एवमभावीयप्रतियोगितावच्छेदकं यथा कपिसंयोगाभावत्वम् , तथा तद्व्यापकीभूतगुणसामान्याभावत्वमपि, यतो हेत्वधिकरणे अात्मनि "सामान्यगुणो नास्ति' इत्याकारकाभावो न प्राप्यते । किन्तु तत्र गुणसामान्या