________________
२४६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे
व्यधिकरणाभावाप्रसिद्धिनिबन्धनो दोषः। यतः संयोगसम्बन्धावच्छिन्नप्रतियोगिताको घटाभाव: प्रतियोगिव्यधिकरण एव । एवं स्थिते सिद्धान्तिनि पूर्वपक्षी प्रकारान्तरेण (श्रभावाऽधिकरणकाऽभावमात्रस्य अधिकरणस्वरूपत्वमिति मतमाश्रित्य ) दोषमुद्भावयति-"घटाभाव" इति ।।
शृणु भो ! सिद्धान्तिन् ! हेत्वधिकरणे पर्वते वर्त्तते यो घटाभावः, तत्र "घटाभावे वह्निर्नास्ति' इत्याकारकप्रत्ययात् वयभावोऽप्यरित । अस्ति चायमेको नियम: “यदभावाधिकरणकोऽभावोऽभावस्वरूप” इति । अनेन नियमेन घटाभावाद्वयभावो न भिन्नः, तथाच हयभावस्य घटाऽभावाऽऽत्मकतया घटाऽभावस्य घट इव वह्निरपि प्रतियोगी, तदधिकरणञ्च पर्वत इत्येवं दिशा प्रतियोगिसमानाधिकरण एवाऽभावो जातः, नतु प्रतियोगिव्यधिकरण इति प्रतियोगिव्यधिकरणाऽभावाऽप्रसिद्धिस्तदवस्थैव ।
(मुक्का०) यदि च घटाभावादौ वह्नयभावादिर्भिन्न इत्युच्यते, तथापि धूमाभाववान् वयभावादित्यादावव्याप्तिः । तत्र साध्यतावच्छेदकसम्बन्धः, स्वरूपसम्बन्धः, तेन सम्बन्धेन सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोग्यधिकरणत्वं हेत्वधिकरणस्येति । ___ (प्रभा०) पूर्वपक्षी अभावाधिकरणकाभावभेदवादिमतेऽपि स्थलान्तरे प्रतियोगिव्यधिकरणाभावाप्रसिद्धिनिबन्धनं दोषमुद्भावयति-"यदि" इत्यादिना |
अयमर्थः–यदि च घटाभावादी वह्नयभावादिभिन्न इत्युच्यते, अर्थात् घटाभावे यो वयभावः, स न घटाभावात्मकः, किन्तु स्वतन्त्रः । अप्तोऽसौ नियमेन प्रतियोग्यधिकरणभिन्नाधिकरणवृत्तिरेव स्यात्, नतु वह्निरूपप्रतियोगिसमानाधिकरणवृत्तिः, ततश्च न प्रतियोगिव्यधिकरणाभावाप्रसिद्धिनिबन्धनो दोष इति सिद्धान्तिनोच्येत, तदा "वह्निमान् धूमात्" इत्यत्र दोषाऽसत्वेऽपि “हृदो धूमाभाववान् वयभावाद्" इत्यनाभावसाध्यकस्थलेऽव्याप्त्यात्मकदोषस्तु समागच्छत्येवेति भक्षितेऽपि लशुने न शान्तो व्याधिः।
तथाहि-अत्र साध्यताऽवच्छेदकसम्बन्धः स्वरूपसम्बन्धः । तेन स्यरूप
* अस्सद्भावनया इयं कल्पना जलताडनन्यायमनुहरति, अथवा प्रस्तरकसिकारणनेन मुग्धमनोभीतिजननं नातिशेते ।
.. घटाभावे यो वयभावः सचाऽनवस्थाभीत्या अधिकरणस्वरूपः अधिष्ठानस्वरूपः । अभावाधिकरणकाऽभावस्याऽधिकरणस्वरूपत्वाद्भावाऽधिकरणकाऽभावस्य तु नाधिकरणस्वरूपत्वम् , जलगतगन्धाभावस्य जलस्वरूपत्वे तस्य घ्राणजप्रत्यक्षत्वाऽनुपपत्तिरतो भावाधिकरणकोऽभावोऽ. धिकरणादतिरिक्तः स्वीकृतः, अनुपपत्त्यभावात् । जलताडनन्यायाऽनुहरणाद्युक्तिस्तु ग्रन्थकर्तुः मीमांसापरिशीलनप्रयुक्तैवेति दण्डिस्वामिनः ।