________________
व्याप्तेः सिद्धान्तलक्षणपरिष्कारः ।
२४५
भावोऽपि शुद्धघटाभावस्वरूपता नातिशेते । तस्याभावस्य प्रतियोगी घटः स्वाभावश्चेति रीत्या प्रतियोगितावच्छेदकावच्छिन्नयावत्प्रतियोग्यन्तर्गतस्वाभावात्मकप्रतियोगिना सहास्त्येव घटाभावस्य सामानाधिकरण्यमित्यागतैव प्रतियोगिव्यधिकरणाभावाप्रसिद्धिः, तस्मादसम्भवीदं लक्षणम् । इदन्तु मया ग्रन्थाक्षरानुरोधेन न्यायगोरक्षप्रहेलिका गुरुशिक्षानुसारं विवरीता।
___यदि तु सकलस्याऽस्य द्वितीयविकल्पग्रन्थस्य वार्तातत्त्वं सरलसंस्कृतेन जिज्ञासितम्भवेत् तदा त्वेवं ज्ञातव्यम्-"पर्वतो वह्निमान् धूमात्' इत्यत्र हेत्वधिकरणे पर्वते धूमाग्न्योाप्तिघटनायोक्नलक्षणानुसारं घटाभावो ध्रियते, वह्नयाद्यभावस्तु तत्र धत्तुं न शक्यते, तस्य तत्रसत्वात् । परं यस्मिन् पर्वते (हेत्वधिकरणे) घटाभावो विद्यते, तत्र यद्युत्तरक्षणावच्छेदेन घट श्रानीयेत, तदा तत्र पूर्वक्षणवृत्तित्वविशिष्टो यो घटाभावः, तस्याभावो जातः । अर्थात् घटाभावाधिकरणे घटानयने घटाभावाभावो जातः । अनया रीत्या पूर्वक्षणवृत्तित्वविशिष्टस्य घटाभावस्याऽभावस्य योऽभाव: स घटाभावस्वरूपः, विशिष्टस्य शुद्धानतिरिकतया विशिष्टघटाभावः शुद्धघटाभावस्वरूप इति कृत्वा तस्य प्रतियोगी घटः स्वाभावश्च भवति । यद्यप्यत्र घटात्मकप्रतियोगिना साकं न तस्य सामानाधिकरण्यम्, परन्तु द्वितीयविकल्पान्तःपाति. यावत्प्रतियोगिपदेन स्वाभावात्मको द्वितीयः प्रतियोगी धत्तुं शक्यत एव, तेन सह ? घटाभावस्य सामानाधिकरण्यं वर्त्तते, अतः प्रतियोगिव्यधिकरणाभावाप्रसिद्धिरित्यहो कौटिल्यकौटिल्यन्यक्कारकारी वक्रिमा नव्यनैयायिकानाम् ।
(मुक्का०) नच वह्निमान् धूमादित्यादी घटाऽभावादेः पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोग्यधिकरणत्वं यद्यपि पर्वतादेस्तथापि साध्यतावच्छेदकसम्बन्धेन तत्प्रतियोग्यनधिकरणत्वमस्त्येवेति कथम्प्रति योगिव्यधिकरणाभावाप्रसिद्धिरिति वाच्यम्, घटाभावे यो वह्नयभावस्तस्य घटाभावात्मकतया घटाभावस्य वह्निरपि प्रतियोगी तद्धिकरणञ्च पर्वतादिरित्येवं क्रमेण प्रतियोगिव्यधिकरणस्याऽप्रसिद्धत्वात् ।
. (प्रभा०) पूर्वपक्षी सिद्धान्त्याशयमुत्थाप्य प्रतिक्षिपति-"नच"-इत्यादिना । अत्रत्यग्रन्थग्रन्थ्युद्घाटनमित्थमाह सिद्धान्ती-“वह्निमान् धूमात्" इत्यत्र धूमहेत्वधिकरणे पर्वते यद्यपि दर्शितदिशा पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोगिना सह घटाभावस्य सामानाधिकरण्यमस्ति, तथापि यथा "ज्ञानवान् द्रव्यत्वात्' इत्यादौ अतिव्याप्तिनिरासाय साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्वं विवक्षितम, तथा प्रकृतेऽपि साध्यतावच्छेदकसम्बन्धविवक्षयाऽसम्भवः परिहर्त्तव्यः । अर्थात् अत्र साध्यतावच्छेदकसम्बन्धः संयोगः, तेन सम्बन्धेन घटस्य स्वाभावात्मकप्रतियोगिनश्वानधिकरणं धूमहेतोरधिकरणञ्च पर्वतो वर्तते, तस्मात् नानया रीत्या प्रतियोगि