________________
२४४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [अनुमानखण्डे (प्रभा०) द्वितीयकल्पे दोषमाह-"द्वितीये तु" इति । अस्य ग्रन्थस्याऽ. भिप्राय एवं वर्णनीयः-तथापि प्रतियोगितावच्छेदकावच्छिन्नस्य यावत्प्रतियोगिनोऽनधिकरणस्वमिति विवक्षायाम् “वह्निमान् धूमात्" इत्यत्र सद्धेतस्थलेऽसम्भवो लक्षणस्य दोषः, यतः प्रतियोगिव्यधिकरणाऽभावस्याऽप्रसिद्धिः । कथमिति चेत् ? शृणु-उक्तरीत्या अत्र हेत्वधिकरणे धूमाधिकरणे लक्षणघटनाय घटायभावो गृह्येत, परमसावपि प्रतियोगिव्यधिकरणो न प्रतीयते, किन्तु स्वाभावात्मकप्रतियोगिसमानाधिकरण एव, सर्वस्यैवाऽभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावाऽऽत्मकप्रतियोगिसमानाधिकरणत्वात् पूर्वक्षणवृत्तित्वविशिष्टं यत्स्वं घटाभावादिः तस्य घटाभावादे. र्योऽभावस्तदात्मको य: प्रतियोगी, तत्समानाधिकरणकत्वादभावस्येत्यर्थः । घटाभावाद्यधिकरणेऽपि पूर्वक्षणवृत्तित्वविशिष्टघटाऽभावाऽभावादेरभावस्य उत्तरक्षणाऽवच्छेदेन सत्त्वादित्यर्थः ।
तथाच-पूर्वक्षणवृत्तित्वविशिष्टघटाभावाऽभावस्य पूर्वक्षणवृत्तित्वविशिष्टघटाऽऽ. त्मकस्य केवलघटाभावानतिरिकतया केवल घटाभावीयप्रतियोगिताया अपि पूर्वक्षणवृत्तित्वविशिष्टघटाऽभावाऽभावे सत्त्वात् प्रतियोगिव्यधिकरणाऽभावाऽप्रसिद्धयाऽसम्भव इति भावः ।
ननु-पूर्वक्षण वृत्तित्वविशिष्टस्य घटाभावादेरभाव: स्वाभावस्य प्रतियोगी, नतु घटाभावस्यापीति चेत् ? न, पूर्वक्षणवृत्तित्वविशिष्टस्य घटाभावादेर्योऽभाव:, स पूर्वपणवृत्तित्वविशिष्टघटाभावादतिरिक्तो नास्ति, यतः “विशिष्टं शुद्धान्नातिरिच्यत" इति न्यायात् विशिष्टाभावप्रतियोग्यपि शुद्धघटाभावप्रतियोगी भवत्येव, तथाच प्रतियोगिव्यधिकरणाभावस्याप्रसिद्धयाऽसम्भवः ।
अयमभिसन्धिः -धूमात्मकहेत्वधिकरणे पर्वते घटाभावो यथा वर्त्तते, तथैव पूर्वक्षणवृत्तित्वविशिष्टघटाऽभावाऽभावोऽप्यस्ति । द्वौ चेतावभावौ समानरूपताम्भजेते, एवमेकरूपतामापनस्याऽस्याऽभावस्य द्वौ प्रतियोगिनौ स्तः, घटो घटाभावाभावश्च । यद्यप्यसो घटात्मकप्रतियोगिसमानाधिकरणको नास्ति, तथापि स्वाभावात्मकप्रतियोगिसमानाधिकरणको भवत्येव । कथमिति चेत् ? श्रूयताम् - यस्मिन्नधिकरणे घटाभावो वर्त्तते, न तत्र घटाभावाभावो भवितुमर्हति "अभावविरहात्मत्वं वस्तुनः प्रतियोगिता" इति न्यायाचार्योदयनोक्नेः । तस्माद् घटाभावाभावः घटस्वरूपः, नासौ घटाभाव. समानाधिकरणः । एवं प्रतियोगितदभावयोः सामानाधिकरण्याभावात् घटाभावे "पूर्वक्षणवृत्तित्वविशिष्टम्" इति पदं विशेषणीकृतम् । यद्यप्यनया रीत्या घटाभावाधिकरणे न घटस्तिष्ठति, तथापि पूर्वक्षणवृत्तित्वविशिष्टघटाभावस्याभावः उत्तरक्षणावच्छेदेन वर्तितुमर्हत्येव, एवम्पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावस्य योऽभावः स पूर्वक्षणवृत्तित्वविशिष्टघटाभावस्वरूप एव । “विशिष्टम्" इति न्यायेन विशिष्टघटा