SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ व्याप्तेः सिद्धान्तलक्षणपरिष्कारः । ( मुका० ) ननु - प्रतियोगितावच्छेदकावच्छिन्नस्य यस्य कस्यचित् प्रतियोगिनोऽनधिकरणत्वं तत्सामान्यस्य वा यत्किञ्चित्प्रतियोगिताऽवच्छेदकावच्छिन्नानधिकरणत्वं वा विवक्षितम् । श्रद्ये कपिसंयोगी एतद्वृक्षत्वादित्यादौ तथैवाऽव्याप्तिः कपिसंयोगाऽभावस्य प्रतियोगितावच्छेदकावच्छिन्नो वृक्षावृत्तिकपिसंयोगोपि भवति तदनधिकरणं वृक्ष इति । ¿ ( प्रभा० ) प्रतियोगितावच्छेदकावच्छिन्नानधिकरणरूपे विवक्षितेऽर्थे शङ्कते - " ननु " - इति । प्रतियोगिताऽवच्छेदकावच्छिन्नस्य=प्रतियोगिताधर्मविशिष्टस्य यस्य कस्यापि प्रतियोगिनोऽनधिकरणत्वमित्याद्यः कल्पः । तत्सामान्यस्य = प्रतियोगितावच्छेदकावच्छिन्नयावत्प्रतियोगिनोऽनधिकरणत्वमिति द्वितीयः कल्पः । श्रर्थात् प्रतियोगिताऽवच्छेदकीभूता यावन्तो धर्माः तदवच्छिन्नाऽऽधेयतानिरूपिताऽधिकरणतावद्भेदकूटवत्त्वं वा । यत्किञ्चिद् यः ग्रतियोगितावच्छेदको धर्मः तदवच्छिन्नस्या - नधिकरणत्वमिति तृतीयः कल्पः । श्रधिकरणत्वमिति पूर्वेणान्वयः । प्रतियोगिता - वच्छेदककिञ्चिद्धर्मावच्छिन्नाधेयतानिरूपिताधिकरणवद्भिन्नत्वमिति तृतीयविकल्पार्थः । प्रथमकल्पे दोषमाह – “आद्य " - इति । “कपिसंयोगी एतद्वृक्षत्वात्" इत्यत्र साध्यः कपिसंयोगः साध्यतावच्छेदकसम्बन्धः समवायसम्बन्धः, तदवच्छिन्नप्रतियोगितावच्छेदकधर्मः कपिसंयोगत्वमपि तद्धर्मावच्छिन्नो यः कश्चित् प्रतियोगिपदेन भूतलवृत्तिरपि कपिसंयोगो धर्त्तुं शक्यते तादृशभूतलवृत्तिकपिसंयोगस्यानधिकरणं यदेतद्वृतत्वरूपहेतोरधिकरणमेतद्वृक्षः, तद्वृत्यभावः “वृक्षे भूतलवृत्तिः कपिसंयोगो मास्ति" इत्याकारकः कपिसंयोगाभावः, एतादृशाभावीय प्रतियोमितावच्छेदकमेव कपियोगत्वं साध्यतावच्छेदकम् श्रनवच्छेदकं साध्यतावच्छेदकं नास्तीत्यव्याप्तिरेव । " २४३ , " यदि प्रतियोगितावच्छेदकावच्छिन्नस्य यावतः प्रतियोगिनोऽनधिकरणत्वमुक्तपदेनेष्टं स्यात्, तदा "वृत्तः कपिसंयोग्येतद्वृक्षत्वात्" इत्यत्र यद्यपि दोषो नास्ति, कुतः ? प्रतियोगिताऽवच्छेदककपिसंयोगत्वाऽवच्छिन्नस्य यावतः कपिसंयोगस्य = कपिसंयोगमात्रस्य अनधिकरणीभूतो हेत्वधिकरणभूत एतद्वृक्षो नास्ति यतस्तन्त्र शाखावच्छेदेन कपिसंयोगोऽपि वर्त्तत एव, तस्मात्प्रतियोगिताऽवच्छेदकघटत्वाऽवच्छिन्नघट मात्रस्य अनधिकरणम्, एतद्वृक्षत्वरूप हेतोरधिकरणञ्चास्त्येव पुरोवर्त्तीि ( पक्षभूतः ) वृक्षः, तदभावीयप्रतियोगितावच्छेदकं घटत्वम्, श्रनवच्छेदकं साध्यतावच्छेदकं कपिसंयोगत्वम्, तदवच्छिन्नसाध्येन सहैतद्वृक्षत्वहेतोरस्त्येव सामानाधिकरण्यमिति द्वितीयपाश्रयणे नाव्याप्तिगन्धोऽपि । ( मुक्रा० ) द्वितीये तु प्रतियोगिव्यधिकरणाभावाऽप्रसिद्धिः सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावाऽऽत्मक प्रतियोगिसमानाऽधिकरणत्वात् ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy